TB 2.6.1

5 पञ्चाशत्

2.6.1 अनुवाकं 1 - ग्रहाः

2.6.1.1
स्वा॒द्वीं त्वा᳚ स्वा॒दुना᳚ । ती॒व्रां ती॒व्रेण॑ । अ॒मृता॑-म॒मृते॑न । मधु॑मतीं॒ मधु॑मता । सृ॒जामि॒ सꣳ सोमे॑न । सोमो᳚ऽस्य॒श्विभ्यां᳚ पच्यस्व । सर॑स्वत्यै पच्यस्व । इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ॥ परी॒तोषि॑ञ्चता सु॒तम् । सोमो॒ य उ॑त्त॒मꣳ ह॒विः
कोर्वै (Index)
(ह॒विः - प्र॒त्यङ्ख्सोमो॒ आति॑द्रुतो - गृह्णा - म्यावि॒शन् - विषू॑चिका॒ पञ्च॑ च)
2.6.1.2
द॒ध॒न्वा यो नर्यो॑ अ॒फ्स्व॑न्तरा । सु॒षाव॒ सोम॒मद्रि॑भिः ॥ पु॒नातु॑ ते परि॒स्रुत᳚म् । सोमꣳ॒॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना᳚ । वा॒युः पू॒तः प॒वित्रे॑ण । प्राङ्ख्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥ वा॒युः पू॒तः प॒वित्रे॑ण । प्र॒त्यङ्ख्सोमो॒ आति॑द्रुतः
कोर्वै (Index)
(ह॒विः - प्र॒त्यङ्ख्सोमो॒ आति॑द्रुतो - गृह्णा - म्यावि॒शन् - विषू॑चिका॒ पञ्च॑ च)
2.6.1.3
इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ॥ ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यम् । सुर॑या॒ सोमः॑ सु॒त आसु॑तो॒ मदा॑य । शु॒क्रेण॑ देव दे॒वताः᳚ पिपृग्धि । रसे॒नान्नं॒ ॅयज॑मानाय धेहि ॥ कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चित् । यथा॒ दान्त्य॑नुपू॒र्वं ॅवि॒यूय॑ । इ॒हेहै॑षां कृणुत॒ भोज॑नानि । ये ब॒र॒.हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥ उ॒प॒या॒म-गृ॑हीतोऽस्य॒श्विभ्यां᳚ त्वा॒ जुष्टं॑ गृह्णामि
कोर्वै (Index)
(ह॒विः - प्र॒त्यङ्ख्सोमो॒ आति॑द्रुतो - गृह्णा - म्यावि॒शन् - विषू॑चिका॒ पञ्च॑ च)
2.6.1.4
सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे᳚ ॥ ए॒ष ते॒ योनि॒स्तेज॑से त्वा । वी॒र्या॑य त्वा॒ बला॑य त्वा ॥ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । वी॒र्य॑मसि वी॒र्यं॑ मयि॑ धेहि । बल॑मसि॒ बलं॒ मयि॑ धेहि ॥ नाना॒ हि वां᳚ दे॒वहि॑तꣳ॒॒ सदः॑ कृ॒तम् । मा सꣳसृ॑क्षाथां पर॒मे व्यो॑मन्न् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिꣳसीः॒ स्वां ॅयोनि॑मावि॒शन्न् ।
कोर्वै (Index)
(ह॒विः - प्र॒त्यङ्ख्सोमो॒ आति॑द्रुतो - गृह्णा - म्यावि॒शन् - विषू॑चिका॒ पञ्च॑ च)
2.6.1.5
उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नं तेजः॑ । सा॒र॒स्व॒तं ॅवी॒र्य᳚म् । ऐ॒न्द्रं बल᳚म् ॥ ए॒ष ते॒ योनि॒र्मोदा॑य त्वा । आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा ॥ ओजो॒ऽस्योजो॒ मयि॑ धेहि । म॒न्युर॑सि म॒न्युं मयि॑ धेहि । महो॑ऽसि॒ महो॒ मयि॑ धेहि । सहो॑ऽसि॒ सहो॒ मयि॑ धेहि ॥ या व्या॒घ्रं ॅविषू॑चिका ( ) । उ॒भौ वृकं॑ च॒ रक्ष॑ति । श्ये॒नं प॑त॒त्रिणꣳ॑ सिꣳ॒॒हम् । सेमं पा॒त्वꣳह॑सः ॥ सं॒ पृचः॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त । वि॒पृचः॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ।
कोर्वै (Index)
(ह॒विः - प्र॒त्यङ्ख्सोमो॒ आति॑द्रुतो - गृह्णा - म्यावि॒शन् - विषू॑चिका॒ पञ्च॑ च)