TB 2.6.20

5 पञ्चाशत्

2.6.20 अनुवाकं 20 - ऐन्द्रो पशौ अनूयाजानां मैत्रावरिणप्रैषाः

2.6.20.1
दे॒वं ब॒र्॒.हिरिन्द्रं॑ ॅवयो॒धस᳚म् । दे॒वं दे॒वम॑वर्द्धयत् । गा॒य॒त्रि॒या छन्द॑सेन्द्रि॒यम् । तेज॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ दे॒वीर्द्वारो॑ दे॒वमिन्द्रं॑ ॅवयो॒धस᳚म् । दे॒वीर्दे॒व-म॑वर्द्धयन्न् । उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यम् । प्रा॒णमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
कोर्वै (Index)
(वि॒य॒न्तु॒ यज॑ - वीतां॒ ॅयज॑-वीतां॒ ॅयज॑-वेतु॒ यज॑-वेतु॒ यज॒ पञ्च॑ च)
2.6.20.2
दे॒वी दे॒वं ॅव॑यो॒धस᳚म् । उ॒षे इन्द्र॑मवर्द्धताम् । अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । वाच॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ ॅयज॑ ॥ दे॒वी जोष्ट्री॑ दे॒वमिन्द्रं॑ ॅवयो॒धस᳚म् । दे॒वी दे॒वम॑वर्द्धताम् । बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम् । श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ ॅयज॑ ।
कोर्वै (Index)
(वि॒य॒न्तु॒ यज॑ - वीतां॒ ॅयज॑-वीतां॒ ॅयज॑-वेतु॒ यज॑-वेतु॒ यज॒ पञ्च॑ च)
2.6.20.3
दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्रं॑ ॅवयो॒धस᳚म् । दे॒वी दे॒वम॑वर्द्धताम् । प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम् । शु॒क्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ ॅयज॑ ॥ दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रं॑ ॅवयो॒धस᳚म् । दे॒वा दे॒वम॑वर्द्धताम् । त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । त्विषि॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒ ॅयज॑ ।
कोर्वै (Index)
(वि॒य॒न्तु॒ यज॑ - वीतां॒ ॅयज॑-वीतां॒ ॅयज॑-वेतु॒ यज॑-वेतु॒ यज॒ पञ्च॑ च)
2.6.20.4
दे॒वी-स्ति॒स्र-स्ति॒स्रो दे॒वीर्व॑यो॒धस᳚म् । पति॒मिन्द्र॑-मवर्द्धयन्न् । जग॑त्या॒ छन्द॑सेन्द्रि॒यम् । बल॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वो नरा॒शꣳसो॑ दे॒वमिन्द्रं॑ ॅवयो॒धस᳚म् । दे॒वो दे॒वम॑वर्द्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒यम् । रेत॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
कोर्वै (Index)
(वि॒य॒न्तु॒ यज॑ - वीतां॒ ॅयज॑-वीतां॒ ॅयज॑-वेतु॒ यज॑-वेतु॒ यज॒ पञ्च॑ च)
2.6.20.5
दे॒वो वन॒स्पति॑र्-दे॒वमिन्द्रं॑ ॅवयो॒धस᳚म् । दे॒वो दे॒वम॑वर्द्धयत् । द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम् । भग॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ दे॒वं ब॒र्॒.हिर्वारि॑तीनां दे॒वमिन्द्रं॑ ॅवयो॒धस᳚म् । दे॒वो (दे॒वं) दे॒वम॑वर्द्धयत् । क॒कुभा॒ छन्द॑सेन्द्रि॒यम् । यश॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ( ) ॥ दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्-दे॒वमिन्द्रं॑ ॅवयो॒धस᳚म् । दे॒वो दे॒वम॑वर्द्धयत् । अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम् । क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।
कोर्वै (Index)
(वि॒य॒न्तु॒ यज॑ - वीतां॒ ॅयज॑-वीतां॒ ॅयज॑-वेतु॒ यज॑-वेतु॒ यज॒ पञ्च॑ च)