TB 2.6.14

6 पञ्चाशत्

2.6.14 अनुवाकं 14 - पशुत्रये अनूयाजप्रैषाः

2.6.14.1
दे॒वं ब॒र्॒.हिः सर॑स्वती । सु॒दे॒वमिन्द्रे॑ अ॒श्विना᳚ । तेजो॒ न चक्षु॑र॒क्ष्योः । ब॒र्॒.हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वीर्द्वारो॑ अ॒श्विना᳚ । भि॒षजेन्द्रे॒ सर॑स्वती । प्रा॒णं न वी॒र्यं॑ न॒सि । द्वारो॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
कोर्वै (Index)
(द्वारो॑ दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - जोष्ट्री᳚भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ -होतृ॑भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यजे᳚ - न्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - सर॑स्वत्या॒ - वन॒स्पतिः॒ षट्च॑)
2.6.14.2
दे॒वी उ॒षासा॑व॒श्विना᳚ । भि॒षजेन्द्रे॒ सर॑स्वती । बलं॒ न वाच॑मा॒स्ये᳚ । उ॒षाभ्यां᳚ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वी जोष्ट्री॑ अ॒श्विना᳚ । सु॒त्रामेन्द्रे॒ सर॑स्वती । श्रोत्रं॒ न कर्ण॑यो॒र्यशः॑ । जोष्ट्री᳚भ्यां दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
कोर्वै (Index)
(द्वारो॑ दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - जोष्ट्री᳚भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ -होतृ॑भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यजे᳚ - न्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - सर॑स्वत्या॒ - वन॒स्पतिः॒ षट्च॑)
2.6.14.3
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे᳚ । पय॒सेन्द्रꣳ॒॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑ऽवत । शु॒क्रं न ज्योतिः॒ स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वा दे॒वानां᳚ भि॒षजा᳚ । होता॑रा॒विन्द्र॑-म॒श्विना᳚ । व॒ष॒ट्का॒रैः सर॑स्वती । त्विषिं॒ न हृद॑ये म॒तिम् । होतृ॑भ्यां दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
कोर्वै (Index)
(द्वारो॑ दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - जोष्ट्री᳚भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ -होतृ॑भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यजे᳚ - न्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - सर॑स्वत्या॒ - वन॒स्पतिः॒ षट्च॑)
2.6.14.4
दे॒वी-स्ति॒स्र-स्ति॒स्रो दे॒वीः । सर॑स्वत्य॒श्विना॒ भार॒तीडा᳚ । शूषं॒ न मद्ध्ये॒ नाभ्या᳚म् । इन्द्रा॑य दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒व इन्द्रो॒ नरा॒शꣳसः॑ । त्रि॒व॒रू॒थः सर॑स्वत्या॒ ऽश्विभ्या॑मीयते॒ रथः॑ । रेतो॒ न रू॒पम॒मृतं॑ ज॒नित्र᳚म् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
कोर्वै (Index)
(द्वारो॑ दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - जोष्ट्री᳚भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ -होतृ॑भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यजे᳚ - न्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - सर॑स्वत्या॒ - वन॒स्पतिः॒ षट्च॑)
2.6.14.5
दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यपर्णो अ॒श्विभ्या᳚म् । सर॑स्वत्याः सुपिप्प॒लः । इन्द्रा॑य पच्यते॒ मधु॑ । ओजो॒ न जू॒तिमृ॑ष॒भो न भाम᳚म् । वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वं ब॒र्॒.हिर्वारि॑तीनाम् । अ॒द्ध्व॒रे स्ती॒र्णम॒श्विभ्या᳚म् । ऊर्ण॑म्रदाः॒ सर॑स्वत्याः
कोर्वै (Index)
(द्वारो॑ दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - जोष्ट्री᳚भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ -होतृ॑भ्यां दधुरिन्द्रि॒यं ॅव॑सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यजे᳚ - न्द्रि॒याणि॑ वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॒ - सर॑स्वत्या॒ - वन॒स्पतिः॒ षट्च॑)
2.6.14.6.
स्यो॒नमि॑न्द्र ते॒ सदः॑ । ई॒शायै॑ म॒न्युꣳ राजा॑नं ब॒र्॒.हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृत् । दे॒वान्.य॑क्षद्-यथाय॒थम् । होता॑रा॒-विन्द्र॑म॒श्विना᳚ । वा॒चा वाचꣳ॒॒ सर॑स्वतीम् । अ॒ग्निꣳ सोमꣳ॑ स्विष्ट॒कृत् । स्वि॑ष्ट॒ इन्द्रः॑ सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक् । इ॒ष्टो दे॒वो वन॒स्पतिः॑ ( ) । स्वि॑ष्टा दे॒वा आ᳚ज्य॒पाः । इ॒ष्टो अ॒ग्निर॒ग्निना᳚ । होता॑ हो॒त्रे स्वि॑ष्ट॒कृत् । यशो॒ न दध॑दिन्द्रि॒यम् । ऊर्ज॒मप॑चितिꣳ स्व॒धाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।