TB 2.6.19

2 पञ्चाशत्

2.6.19 अनुवाकं 19 - ऐन्द्रो पशौ वपादीनां यज्यानुवाक्याः

2.6.19.1
व॒स॒न्तेन॒र्तुना॑ दे॒वाः । वस॑वस्त्रि॒वृता᳚ स्तु॒तम् । र॒थ॒न्त॒रेण॒ तेज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ ग्री॒ष्मेण॑ दे॒वा ऋ॒तुना᳚ । रु॒द्राः प॑ञ्चद॒शे स्तु॒तम् । बृ॒ह॒ता यश॑सा॒ बल᳚म् । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ व॒र॒.षाभि॑र्. ऋ॒तुना॑ऽऽदि॒त्याः । स्तोमे॑ सप्तद॒शे स्तु॒तम्
कोर्वै (Index)
(स्तोमे॑ सप्तद॒शे स्तु॒तꣳ - सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुश्च॒त्वारि॑ च)
2.6.19.2
वै॒रू॒पेण॑ वि॒शौज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ शा॒र॒देन॒र्तुना॑ दे॒वाः । ए॒क॒विꣳ॒॒श ऋ॒भवः॑ स्तु॒तम् । वै॒रा॒जेन॑ श्रि॒या श्रिय᳚म् । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ हे॒म॒न्तेन॒र्तुना॑ दे॒वाः । म॒रुत॑स्त्रिण॒वे स्तु॒तम् । बले॑न॒ शक्व॑रीः॒ सहः॑ । ह॒विरिन्द्रे॒ वयो॑ दधुः ( ) ॥ शै॒शि॒रेण॒र्तुना॑ दे॒वाः । त्र॒य॒स्त्रिꣳ॒॒शे॑ ऽमृतꣳ॑ स्तु॒तम् । स॒त्येन॑ रे॒वतीः᳚ क्ष॒त्रम् । ह॒विरिन्द्रे॒ वयो॑ दधुः ।
कोर्वै (Index)
(स्तोमे॑ सप्तद॒शे स्तु॒तꣳ - सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुश्च॒त्वारि॑ च)