होता॑ यक्षथ्-स॒मिधा॒ऽग्नि-मि॒डस्प॒दे । अ॒श्विनेन्द्रꣳ॒॒ सर॑स्वतीम् । अ॒जो धू॒म्रो न गो॒धूमैः॒ क्व॑लैर्भेष॒जम् । मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यम् । पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒त्तनू॒नपा॒थ् सर॑स्वती । अवि॑र्मे॒षो न भे॑ष॒जम् । प॒था मधु॑म॒ता ऽऽभ॑रन्न् । अ॒श्विनेन्द्रा॑य वी॒र्य᳚म्
कोर्वै (Index)
(वी॒र्यं - ॅवि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॒ - नास॑त्या॒ - सर॑स्वती॒ - मधु॑ - हिर॒ण्ययं॑ - भेष॒जं - ॅवि॒यन्त्वाज्य॑स्य॒ होत॒र्यजा᳚ - ज्य॒पा - न॒मृताः॒ पञ्च॑ च)