TB 2.6.13

3 पञ्चाशत्

2.6.13 अनुवाकं 13 - पशुत्रये वपादीनां याज्यानुवाक्याः

2.6.13.1
अ॒श्विना॑ ह॒विरि॑न्द्रि॒यम् । नमु॑चेर्द्धि॒या सर॑स्वती । आ शु॒क्रमा॑सु॒राद्व॒सु । म॒घमिन्द्रा॑य जभ्रिरे ॥ यम॒श्विना॒ सर॑स्वती । ह॒विषेन्द्र॒-मव॑र्द्धयन्न् । स बि॑भेद ब॒लं (व॒लं) म॒घम् । नमु॑चावासु॒रे सचा᳚ । तमिन्द्रं॑ प॒शवः॒ सचा᳚ ॥ अ॒श्विनो॒भा सर॑स्वती
कोर्वै (Index)
(उ॒भा सर॑स्वती॒ - बल॑मिन्द्रि॒यं - नरा॒ षट्च॑)
2.6.13.2
दधा॑ना अ॒भ्य॑नूषत । ह॒विषा॑ य॒ज्ञ्मि॑न्द्रि॒यम् ॥ य इन्द्र॑ इन्द्रि॒यं द॒धुः । स॒वि॒ता वरु॑णो॒ भगः॑ । स सु॒त्रामा॑ ह॒विष्प॑तिः । यज॑मानाय सश्चत ॥ स॒वि॒ता वरु॑णो॒ दध॑त् । यज॑मानाय दा॒शुषे᳚ । आद॑त्त॒ नमु॑चे॒र्वसु॑ । सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ।
कोर्वै (Index)
(उ॒भा सर॑स्वती॒ - बल॑मिन्द्रि॒यं - नरा॒ षट्च॑)
2.6.13.3
वरु॑णः क्ष॒त्रमि॑न्द्रि॒यम् । भगे॑न सवि॒ता श्रिय᳚म् । सु॒त्रामा॒ यश॑सा॒ बल᳚म् । दधा॑ना य॒ज्ञ्मा॑शत ॥ अश्वि॑ना॒ गोभि॑रिन्द्रि॒यम् । अश्वे॑भिर् वी॒र्यं॑ बल᳚म् । ह॒विषेन्द्रꣳ॒॒ सर॑स्वती । यज॑मान-मवर्द्धयन्न् ॥ ता नास॑त्या सु॒पेश॑सा । हिर॑ण्यवर्तनी॒ नरा᳚ ( ) । सर॑स्वती ह॒विष्म॑ती । इन्द्र॒ कम॑र्सु नोऽवत ॥ ता भि॒षजा॑ सु॒कर्म॑णा । सा सु॒दुघा॒ सर॑स्वती । स वृ॑त्र॒हा श॒तक्र॑तुः । इन्द्रा॑य दधुरिन्द्रि॒यम् ।
कोर्वै (Index)
(उ॒भा सर॑स्वती॒ - बल॑मिन्द्रि॒यं - नरा॒ षट्च॑)