TB 2.6.7

6 पञ्चाशत्

2.6.7 अनुवाकं 7 - ऐन्द्रे प्रश्नौ प्रयाजानामेकादश मैत्रावरुणप्रैषाः

2.6.7.1
होता॑ यक्षथ्-स॒मिधेन्द्र॑-मि॒डस्प॒दे । नाभा॑ पृथि॒व्या अधि॑ । दि॒वो वर्ष्म॒न्थ् समि॑द्ध्यते । ओजि॑ष्ठश्चर्.षणी॒सहान्॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒त्तनू॒नपा॑तम् । ऊ॒तिभि॒र्-जेता॑र॒-मप॑राजितम् । इन्द्रं॑ दे॒वꣳ सु॑व॒र्विद᳚म् । प॒थिभि॒र् मधु॑मत्तमैः । नरा॒शꣳसे॑न॒ तेज॑सा
कोर्वै (Index)
(तेज॑सा-ऽसद-दवर्द्धतां॒-भार॑ती-न्द्रि॒यं-जु॑षा॒णा द्वे च॑)
2.6.7.2
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒दिडा॑भि॒-रिन्द्र॑-मीडि॒तम् । आ॒जुह्वा॑न॒-मम॑र्त्यम् । दे॒वो दे॒वैः सवी᳚र्यः । वज्र॑हस्तः पुरंद॒रः । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षद्-ब॒र॒.हिषीन्द्रं॑ निषद्व॒रम् । वृ॒ष॒भं नर्या॑पसम् । वसु॑भी रु॒द्रैरा॑दि॒त्यैः । स॒युग्भि॑र्-ब॒र॒.हिरा ऽस॑दत्
कोर्वै (Index)
(तेज॑सा-ऽसद-दवर्द्धतां॒-भार॑ती-न्द्रि॒यं-जु॑षा॒णा द्वे च॑)
2.6.7.3
वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒दोजो॒ न वी॒र्य᳚म् । सहो॒ द्वार॒ इन्द्र॑मवर्द्धयन्न् । सु॒प्रा॒य॒णा विश्र॑यन्तामृता॒वृधः॑ । द्वार॒ इन्द्रा॑य मी॒ढुषे᳚ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू । सु॒दुघे॑ मा॒तरौ॑ म॒ही । सवा॒तरौ॒ न तेज॑सी । व॒थ्समिन्द्र॑-मवर्द्धताम्
कोर्वै (Index)
(तेज॑सा-ऽसद-दवर्द्धतां॒-भार॑ती-न्द्रि॒यं-जु॑षा॒णा द्वे च॑)
2.6.7.4
वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒द् दैव्या॒ होता॑रा । भि॒षजा॒ सखा॑या । ह॒विषेन्द्रं॑ भिषज्यतः । क॒वी दे॒वौ प्रचे॑तसौ । इन्द्रा॑य धत्त इन्द्रि॒यम् । वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षत्ति॒स्रो दे॒वीः । त्रय॑स्त्रि॒धात॑वो॒ऽपसः॑ । इडा॒ सर॑स्वती॒ भार॑ती
कोर्वै (Index)
(तेज॑सा-ऽसद-दवर्द्धतां॒-भार॑ती-न्द्रि॒यं-जु॑षा॒णा द्वे च॑)
2.6.7.5
म॒हीन्द्र॑पत्नीर्.-ह॒विष्म॑तीः । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒त्त्वष्टा॑र॒-मिन्द्रं॑ दे॒वम् । भि॒षजꣳ॑ सु॒यजं॑ घृत॒श्रिय᳚म् । पु॒रु॒रूपꣳ॑ सु॒रेत॑सं म॒घोनि᳚म् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒द्-वन॒स्पति᳚म् । श॒मि॒तारꣳ॑ श॒तक्र॑तुम् । धि॒यो जो॒ष्टार॑-मिन्द्रि॒यम्
कोर्वै (Index)
(तेज॑सा-ऽसद-दवर्द्धतां॒-भार॑ती-न्द्रि॒यं-जु॑षा॒णा द्वे च॑)
2.6.7.6.
मद्ध्वा॑ सम॒ञ्जन्प॒थिभिः॑ सु॒गेभिः॑ । स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒दिन्द्रꣳ॒॒ स्वाहाऽऽज्य॑स्य । स्वाहा॒ मेद॑सः । स्वाहा᳚ स्तो॒काना᳚म् । स्वाहा॒ स्वाहा॑कृतीनाम् । स्वाहा॑ ह॒व्यसू᳚क्तीनाम् । स्वाहा॑ दे॒वाꣳ आ᳚ज्य॒पान् । स्वाहेन्द्रꣳ॑ हो॒त्राज्जु॑षा॒णाः ( ) । इन्द्र॒ आज्य॑स्य वियन्तु । होत॒र्यज॑ ।
कोर्वै (Index)
(तेज॑सा-ऽसद-दवर्द्धतां॒-भार॑ती-न्द्रि॒यं-जु॑षा॒णा द्वे च॑)