समि॑द्धो अ॒ग्निर॑श्विना । त॒प्तो घ॒र्मो वि॒राट्थ् सु॒तः । दु॒हे धे॒नुः सर॑स्वती । सोमꣳ॑ शु॒क्रमि॒हेन्द्रि॒यम् ॥ त॒नू॒पा भि॒षजा॑ सु॒ते । अ॒श्विनो॒भा सर॑स्वती । मद्ध्वा॒ रजाꣳ॑सीन्द्रि॒यम् । इन्द्रा॑य प॒थिभि॑र् वहान् ॥ इन्द्रा॒येन्दुꣳ॒॒ सर॑स्वती । नरा॒शꣳसे॑न न॒ग्नहुः॑
कोर्वै (Index)
(न॒ग्नहुः॒ - पात॑वे - सरस्व - त्यधुः सु॒ते᳚ऽष्टौ च॑)