होता॑ यक्षदि॒डस्प॒दे । स॒मि॒धा॒नं म॒हद्यशः॑ । सुष॑मिद्धं॒ ॅवरे᳚ण्यम् । अ॒ग्निमिन्द्रं॑ ॅवयो॒धस᳚म् । गा॒य॒त्रीं छन्द॑ इन्द्रि॒यम् । त्र्यविं॒ गां ॅवयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒च्छुचि॑व्रतम् । तनू॒नपा॑तमु॒द्भिद᳚म् । यं गर्भ॒मदि॑तिर्द॒धे
कोर्वै (Index)
(द॒धे - दध॑द् - ऋता॒वृध॑ - इन्द्रि॒यं - पेश॑स्वतीर् - वयो॒धसं॒ - ॅवेत्वाज्य॑स्य॒ होत॒र्यज॑ स॒प्त च॑)