सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिणः॑ । ऊ॒र्णा॒सू॒त्रेण॑ क॒वयो॑ वयन्ति । अ॒श्विना॑ य॒ज्ञ्ꣳ स॑वि॒ता सर॑स्वती । इन्द्र॑स्य रू॒पं ॅवरु॑णो भिष॒ज्यन्न् ॥ तद॑स्य रू॒पम॒मृतꣳ॒॒ शची॑भिः । ति॒स्रो द॑धुर्दे॒वताः᳚ सꣳररा॒णाः । लोमा॑नि॒ शष्पै᳚र् बहु॒धा न तोक्म॑भिः । त्वग॑स्य माꣳ॒॒सम॑भव॒न्न ला॒जाः ॥ तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी । सर॑स्वती वयति॒ पेशो॒ अन्त॑रः
कोर्वै (Index)
(अन्त॑र - आ॒रा - द॒न्तर् - व॑साते - व्याघ्रलो॒मꣳ - राजा॑ च॒त्वारि॑ च)