TB 2.6.3

5 पञ्चाशत्

2.6.3 अनुवाकं 3 - ग्रहहोमः

2.6.3.1
सुरा॑वन्तं बर्.हि॒षदꣳ॑ सु॒वीर᳚म् । य॒ज्ञ्ꣳ हि॑न्वन्ति महि॒षा नमो॑भिः । दधा॑नाः॒ सोमं॑ दि॒वि दे॒वता॑सु । मदे॒मेन्द्रं॒ ॅयज॑मानाः स्व॒र्काः ॥ यस्ते॒ रसः॒ संभृ॑त॒ ओष॑धीषु । सोम॑स्य॒ शुष्मः॒ सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न । सर॑स्वती-म॒श्विना॒-विन्द्र॑-म॒ग्निम् ॥ यम॒श्विना॒ नमु॑चेरासु॒रादधि॑ । सर॑स्व॒त्यस॑नोदिन्द्रि॒याय॑
कोर्वै (Index)
(इ॒न्द्रि॒याय॑ - पि॒तरः॑ - श॒तायु॑षा पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः-कल्पताꣳ-स्व॒स्तये॒ पञ्च॑ च)
2.6.3.2
इ॒मं तꣳ शु॒क्रं मधु॑मन्त॒-मिन्दु᳚म् । सोमꣳ॒॒ राजा॑नमि॒ह भ॑क्षयामि ॥ यदत्र॑ रि॒प्तꣳ र॒सिनः॑ सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॑ । सोमꣳ॒॒ राजा॑नमि॒ह भ॑क्षयामि ॥ पि॒तृभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑ । पि॒ता॒म॒हेभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑ । प्रपि॑तामहेभ्यः स्वधा॒विभ्यः॑ स्व॒धा नमः॑ । अक्ष॑न् पि॒तरः॑
कोर्वै (Index)
(इ॒न्द्रि॒याय॑ - पि॒तरः॑ - श॒तायु॑षा पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः-कल्पताꣳ-स्व॒स्तये॒ पञ्च॑ च)
2.6.3.3
अमी॑मदन्त पि॒तरः॑ । अती॑तृपन्त पि॒तरः॑ । अमी॑मृजन्त पि॒तरः॑ । पित॑रः॒ शुन्ध॑द्ध्वम् ॥ पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑ । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः
कोर्वै (Index)
(इ॒न्द्रि॒याय॑ - पि॒तरः॑ - श॒तायु॑षा पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः-कल्पताꣳ-स्व॒स्तये॒ पञ्च॑ च)
2.6.3.4
प॒वित्रे॑ण श॒तायु॑षा ॥ विश्व॒मायु॒र्-व्य॑श्नवै ।"अग्न॒ आयूꣳ॑षि पव॒से {3}" "ऽग्ने॒ पव॑स्व{4}"। "पव॑मानः॒ सुव॒र्जनः॑{5}" "पु॒नन्तु॑ मा देवज॒नाः{6}"। "जात॑वेदः प॒वित्र॑व॒द्{7}" "यत्ते॑ प॒वित्र॑म॒र्चिषि॑{8}"। "उ॒भाभ्यां᳚ देव सवितर्{9}" "वैश्वदे॒वी पु॑न॒ती{10}"॥ ये स॑मा॒नाः सम॑नसः । पि॒तरो॑ यम॒राज्ये᳚ । तेषां᳚ ॅलो॒कः स्व॒धा नमः॑ । य॒ज्ञो दे॒वेषु॑ कल्पताम् ।
कोर्वै (Index)
(इ॒न्द्रि॒याय॑ - पि॒तरः॑ - श॒तायु॑षा पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः-कल्पताꣳ-स्व॒स्तये॒ पञ्च॑ च)
2.6.3.5
ये स॑जा॒ताः सम॑नसः । जी॒वा जी॒वेषु॑ माम॒काः । तेषाꣳ॒॒ श्रीर्मयि॑ कल्पताम् । अ॒स्मिल् ॅलो॒के श॒तꣳ समाः᳚ ॥ द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम् । अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । याभ्या॑मि॒दं ॅविश्व॒मेज॒थ्-समे॑ति । यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥ इ॒दꣳ ह॒विः प्र॒जन॑नं मे अस्तु । दश॑वीरꣳ स॒र्वग॑णꣳ स्व॒स्तये᳚ ( ) । आ॒त्म॒सनि॑ प्रजा॒सनि॑ । प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑ । अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करोतु । अन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त । रा॒यस्पोष॒-मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒थ्-स्वाहा᳚ ।
कोर्वै (Index)
(इ॒न्द्रि॒याय॑ - पि॒तरः॑ - श॒तायु॑षा पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः-कल्पताꣳ-स्व॒स्तये॒ पञ्च॑ च)