दे॒वं ब॒र्॒.हिरिन्द्रꣳ॑ सुदे॒वं दे॒वैः । वी॒रव॑थ्-स्ती॒र्णं ॅवेद्या॑मवर्द्धयत् । वस्तो᳚र्वृ॒तं प्राक्तो᳚र्भृ॒तम् । रा॒या ब॒र्॒.हिष्म॒तोऽत्य॑गात् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ दे॒वीर्द्वार॒ इन्द्रꣳ॑ संघा॒ते । वि॒ड्वीर्याम॑न्नवर्द्धयन्न् । आ व॒थ्सेन॒ तरु॑णेन कुमा॒रेण॑ च मीवि॒ता अपार्वा॑णम् । रे॒णुक॑काटं नुदन्ताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ।
कोर्वै (Index)
(वि॒य॒न्तु॒ यज॑ - शिक्षि॒ते - शि॑क्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ ॅयज॑-गृ॒हान्.-वे॑तु॒ यजा॑-भू॒थ् षट्च॑)