TB 2.6.15

2 पञ्चाशत्

2.6.15 अनुवाकं 15 - सूक्तवाकप्रैषः

2.6.15.1
अ॒ग्निम॒द्य होता॑रमवृणीत । अ॒यꣳ सु॑तासु॒ती यज॑मानः । पच॑न् प॒क्तीः । पच॑न् पुरो॒डाशान्॑ । गृ॒ह्णन् ग्रहान्॑ । ब॒द्ध्नन्न॒श्विभ्यां॒ छागꣳ॒॒ सर॑स्वत्या॒ इन्द्रा॑य । ब॒द्ध्नन्थ् सर॑स्वत्यै मे॒षमिन्द्रा॑या॒श्विभ्या᳚म् । ब॒द्ध्नन्निन्द्रा॑यर्.ष॒भ-म॒श्विभ्याꣳ॒॒ सर॑स्वत्यै । सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवत् । अ॒श्विभ्यां॒ छागे॑न॒ सर॑स्वत्या॒ इन्द्रा॑य
कोर्वै (Index)
(इन्द्रा॑य॒ - यज॑मानः स॒प्त च॑)
2.6.15.2
सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्या᳚म् । इन्द्रा॑यर्.ष॒भेणा॒श्विभ्याꣳ॒॒ सर॑स्वत्यै । अक्षꣳ॒॒स्तान्मे॑द॒स्तः प्रति॑ पच॒ताऽग्र॑भीषुः । अवी॑वृधन्त॒ ग्रहैः᳚ । अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा । सोमा᳚न्थ्-सु॒राम्णः॑ । उपो॑ उक्थाम॒दाः श्रौ॒द्विमदा॑ अदन्न् । अवी॑वृधन् ताङ्गू॒षैः । त्वाम॒द्यर्.ष॑ आर्.षेयर्.षीणां नपादवृणीत । अ॒यꣳ सु॑तासु॒ती यज॑मानः ( ) । ब॒हुभ्य॒ आसंग॑तेभ्यः । ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑ । ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ । तान्य॑स्मा॒ आ च॒ शास्व॑ । आ च॑ गुरस्व । इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः । सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ।
कोर्वै (Index)
(इन्द्रा॑य॒ - यज॑मानः स॒प्त च॑)