TB 2.6.8

4 पञ्चाशत्

2.6.8 अनुवाकं 8 - ऐन्द्रे प्रश्नौ प्रयाजयाज्याः

2.6.8.1
समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के । पु॒रो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः । त्रि॒भिर्दे॒वैस्त्रिꣳ॒॒शता॒ वज्र॑बाहुः । ज॒घान॑ वृ॒त्रं ॅवि दुरो॑ ववार ॥ नरा॒शꣳसः॒ प्रति॒ शूरो॒ मिमा॑नः । तनू॒नपा॒त्-प्रति॑ य॒ज्ञ्स्य॒ धाम॑ । गोभि॑र्-व॒पावा॒न्-मधु॑ना सम॒ञ्जन्न् । हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः ॥ ई॒डि॒तो दे॒वैर्.हरि॑वाꣳ अभि॒ष्टिः । आ॒जुह्वा॑नो ह॒विषा॒ शर्द्ध॑मानः
कोर्वै (Index)
(शर्द्ध॑मानो॒ - महो॑भिः॒ - पत्नी᳚र् - घृ॒तेन॑ च॒त्वारि॑ च)
2.6.8.2
पु॒र॒दं॒रो म॒घवा॒न्॒. वज्र॑बाहुः । आया॑तु य॒ज्ञ्मुप॑ नो जुषा॒णः ॥ जु॒षा॒णो ब॒र॒.हिर्.हरि॑वान्न॒ इन्द्रः॑ । प्रा॒चीनꣳ॑ सीदत्प्र॒दिशा॑ पृथि॒व्याः । उ॒रु॒व्यचाः॒ प्रथ॑मानꣳ स्यो॒नम् । आ॒दि॒त्यैर॒क्तं ॅवसु॑भिः स॒जोषाः᳚ ॥ इन्द्रं॒ दुरः॑ कव॒ष्यो॑ धाव॑मानाः । वृषा॑णं ॅयन्तु॒ जन॑यः सु॒पत्नीः᳚ । द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताम् । सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ।
कोर्वै (Index)
(शर्द्ध॑मानो॒ - महो॑भिः॒ - पत्नी᳚र् - घृ॒तेन॑ च॒त्वारि॑ च)
2.6.8.3
उ॒षासा॒ नक्ता॑ बृह॒ती बृ॒हन्त᳚म् । पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र᳚म् । पेश॑स्वती॒ तन्तु॑ना स॒म्ॅव्यय॑न्ती । दे॒वानां᳚ दे॒वं ॅय॑जतः सुरु॒क्मे ॥ दैव्या॒ मिमा॑ना॒ मन॑सा पुरु॒त्रा । होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा᳚ । मू॒र्द्धन्. य॒ज्ञ्स्य॒ मधु॑ना॒ दधा॑ना । प्रा॒चीनं॒ ज्योति॑र्.ह॒विषा॑ वृधातः ॥ ति॒स्रो दे॒वीर्.ह॒विषा॒ वर्द्ध॑मानाः । इन्द्रं॑ जुषा॒णा वृष॑णं॒ न पत्नीः᳚
कोर्वै (Index)
(शर्द्ध॑मानो॒ - महो॑भिः॒ - पत्नी᳚र् - घृ॒तेन॑ च॒त्वारि॑ च)
2.6.8.4
अच्छि॑न्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्वती । इडा॑ दे॒वी भार॑ती वि॒श्वतू᳚र्तिः ॥ त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्म᳚म् । अपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ । वृषा॒ यज॒न् वृष॑णं॒ भूरि॑रेताः । मू॒र्द्धन्. य॒ज्ञ्स्य॒ सम॑नक्तु दे॒वान् ॥ वन॒स्पति॒-रव॑सृष्टो॒ न पाशैः᳚ । त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः । इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः । स्वदा॑ति ह॒व्यं मधु॑ना घृ॒तेन॑ ( ) ॥ स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रः॑ । वृ॒षा॒यमा॑णो वृष॒भ-स्तु॑रा॒षाट् । घृ॒त॒प्रुषा॒ मधु॑ना ह॒व्यमु॒न्दन्न् । मू॒र्द्धन्. य॒ज्ञ्स्य॑ जुषताꣳ॒॒ स्वाहा᳚ ।
कोर्वै (Index)
(शर्द्ध॑मानो॒ - महो॑भिः॒ - पत्नी᳚र् - घृ॒तेन॑ च॒त्वारि॑ च)