TB 2.6.2

3 पञ्चाशत्

2.6.2 अनुवाकं 2 - ग्रहोपस्थानम्

2.6.2.1
सोमो॒ राजा॒ऽमृतꣳ॑ सु॒तः । ऋ॒जी॒षेणा॑जहान्मृ॒त्युम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपानꣳ॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दं पयो॒ऽमृतं॒ मधु॑ ॥ सोम॑म॒द्भ्यो व्य॑पिबत् । छन्द॑सा हꣳ॒॒सः शु॑चि॒षत् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अ॒द्भ्यः क्षी॒रं ॅव्य॑पिबत्
कोर्वै (Index)
(अ॒द्भ्यः क्षी॒रं ॅव्य॑पिब॒ - ज्जन्म॑न॒र्तेन॑ स॒त्यमि॑न्द्रि॒यꣳ - श्र॒द्धाꣳ स॒त्ये प्र॒जाप॑तिर॒ष्टौ च॑)
2.6.2.2
क्रुङ्ङा᳚ङ्गिर॒सो धि॒या । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अन्ना᳚त् परि॒स्रुतो॒ रस᳚म् । ब्रह्म॑णा॒ व्य॑पिबत् क्ष॒त्रम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥ रेतो॒ मूत्रं॒ ॅविज॑हाति । योनिं॑ प्रवि॒शदि॑न्द्रि॒यम् । गर्भो॑ ज॒रायु॒णाऽऽवृ॑तः । उल्बं॑ जहाति॒ जन्म॑ना । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम्
कोर्वै (Index)
(अ॒द्भ्यः क्षी॒रं ॅव्य॑पिब॒ - ज्जन्म॑न॒र्तेन॑ स॒त्यमि॑न्द्रि॒यꣳ - श्र॒द्धाꣳ स॒त्ये प्र॒जाप॑तिर॒ष्टौ च॑)
2.6.2.3
वेदे॑न रू॒पे व्य॑करोत् । स॒ता॒स॒ती प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥ सोमे॑न॒ सोमौ॒ व्य॑पिबत् । सु॒ता॒सु॒तौ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा रू॒पे व्याक॑रोत् । स॒त्या॒नृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒-मनृ॒तेऽद॑धात् । श्र॒द्धाꣳ स॒त्ये प्र॒जाप॑तिः ( ) । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥ दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस᳚म् । शु॒क्रेण॑ शु॒क्रं ॅव्य॑पिबत् । पयः॒ सोमं॑ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपानꣳ॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒दं पयो॒ऽमृतं॒ मधु॑ ।
कोर्वै (Index)
(अ॒द्भ्यः क्षी॒रं ॅव्य॑पिब॒ - ज्जन्म॑न॒र्तेन॑ स॒त्यमि॑न्द्रि॒यꣳ - श्र॒द्धाꣳ स॒त्ये प्र॒जाप॑तिर॒ष्टौ च॑)