TB 2.6.16

2 पञ्चाशत्

2.6.16 अनुवाकं 16 - पितृयज्ञ्याज्यानुवाक्याः

2.6.16.1
"उ॒शन्त॑स्त्वा हवामह॒{14}", "आ नो॑ अग्ने सुके॒तुना᳚{15}"। "त्वꣳ सो॑म म॒हे भगं॒{16}","त्वꣳ सो॑म॒ प्रचि॑कितो मनी॒षा{17}"। "त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒{18}", "त्वꣳ सो॑म पि॒तृभिः॑ सम्ॅविदा॒नः{19}" । "बर्.हि॑षदः पितर॒{20}", "आऽहं पि॒तॄन्{21}" । "उप॑हूताः पि॒तरो{22}", "ऽग्नि॑ष्वात्ताः पितरः{23}" ॥ अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे । नरा॒शꣳसे॑ सोमपी॒थं ॅय आ॒शुः । ते नो॒ अर्व॑न्तः सु॒हवा॑ भवन्तु । शं नो॑ भवन्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ये अ॑ग्निष्वा॒त्ता येऽन॑ग्निष्वात्ताः
कोर्वै (Index)
(अन॑ग्निष्वात्ता॒ - जेह॑मानाः स॒प्त च॑)
2.6.16.2
अꣳ॒॒हो॒मुचः॑ पि॒तरः॑ सो॒म्यासः॑ । परेऽव॑रे॒ऽमृता॑सो॒ भव॑न्तः । अधि॑ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ॥ वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णाः कर॒म्भम् । उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च । अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभिः॑ सम्ॅविदा॒नाः । इन्द्र॑वन्तो ह॒विरि॒दं जु॑षन्ताम् ॥ "यद॑ग्ने कव्यवाहन॒{24}, "त्वम॑ग्न ईडि॒तो जा॑तवेदः{25}" । "मात॑लीक॒व्यैः{26}" ॥ ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः ( ) । हो॒त्रा॒वृधः॒ स्तोम॑तष्टासो अ॒र्कैः । आऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् । स॒त्यैः क॒व्यैः पि॒तृभि॑र्-घर्म॒सद्भिः॑ ॥ ह॒व्य॒वाह॑म॒जरं॑ पुरुप्रि॒यम् । अ॒ग्निं घृ॒तेन॑ ह॒विषा॑ सप॒र्यन्न् । उपा॑सदं कव्य॒वाहं॑ पितृ॒णाम् । स नः॑ प्र॒जां ॅवी॒रव॑तीꣳ॒॒ समृ॑ण्वतु ।
कोर्वै (Index)
(अन॑ग्निष्वात्ता॒ - जेह॑मानाः स॒प्त च॑)