"आच॑र्.षणि॒प्रा{11}", "वि॒वेष॒ यन्मा᳚{12}"॥ "तꣳ स॒द्ध्रीचीः᳚{13}"॥ स॒त्यमित्तन्न त्वावाꣳ॑ अ॒न्यो अस्ति॑ । इन्द्र॑ दे॒वो न मर्त्यो॒ ज्यायान्॑ । अह॒न्नहिं॑ परि॒शया॑न॒मर्णः॑ । अवा॑सृजो॒ऽपो अच्छा॑ समु॒द्रम् ॥ प्रस॑साहिषे पुरुहूत॒ शत्रून्॑ । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि । पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम् ( ) ॥ स शेवृ॑ध॒मधि॑धा द्यु॒म्नम॒स्मे । महि॑ क्ष॒त्रं ज॑ना॒षाडि॑न्द्र॒ तव्य᳚म् । रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन् । रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः᳚ ।
कोर्वै (Index)
(रे॒वती॑नां च॒त्वारि॑ च)