प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.3.11.1 TS 7.3.11.1
अ॒र्वाङ् य॒ज्ञ्ः सं क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णां॒ ॅयः पु॒रोहि॑तः ॥ निर्दे॑वं॒ निर्वी॑रं कृ॒त्वा विष्क॑न्धं॒ तस्मि॑न् हीयतां॒ ॅयो᳚ऽस्मान् द्वेष्टि॑ । शरी॑रं ॅयज्ञ्शम॒लं कुसी॑दं॒ तस्मिन्᳚थ्सीदतु॒ यो᳚ऽस्मान् द्वेष्टि॑ ॥यज्ञ्॑ य॒ज्ञ्स्य॒ यत् तेज॒स्तेन॒ संक्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान् य॒ज्ञ्स्य॒ तप॑सा ते सवा॒हमा हु॑वे ॥इ॒ष्टेन॑ प॒क्वमुप॑ - [ ]
पदपाठः (Word-by-word)
अ॒र्वाङ् । य॒ज्ञ्ः । समिति॑ । क्रा॒म॒तु॒ । अ॒मुष्मा᳚त् । अधीति॑ । माम् । अ॒भि ॥ ऋषी॑णाम् । यः । पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ ॥ निर्दे॑व॒मिति॒ निः - दे॒व॒म् । निर्वी॑र॒मिति॒ निः - वी॒र॒म् । कृ॒त्वा । विष्क॑न्ध॒मिति॒ वि - स्क॒न्ध॒म् । तस्मिन्न्॑ । ही॒य॒ता॒म् । यः । अ॒स्मान् । द्वेष्टि॑ ॥ शरी॑रम् । य॒ज्ञ्॒श॒म॒लमिति॑ यज्ञ् - श॒म॒लम् । कुसी॑दम् । तस्मिन्न्॑ । सी॒द॒तु॒ । यः । अ॒स्मान् । द्वेष्टि॑ ॥ यज्ञ्॑ । य॒ज्ञ्स्य॑ । यत् । तेजः॑ । तेन॑ । समिति॑ । क्रा॒म॒ । माम् । अ॒भि ॥ ब्रा॒ह्म॒णान् । ऋ॒त्विजः॑ । दे॒वान् । य॒ज्ञ्स्य॑ । तप॑सा । ते॒ । स॒व॒ । अ॒हम् । एति॑ । हु॒वे॒ ॥ इ॒ष्टेन॑ । प॒क्वम् । उपेति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाश्वमेधे अष्टावाहुतीः जुहोति - अर्वाङित्यादि ॥ प्रथमा गायत्री त्रिपदा । अर्वाङितो मुखो यज्ञः संक्रामतु यजमानं समागच्छतु । कीदृशः? ऋषीणां ज्ञानवतां यजमानानां यः पुरोहितः सर्वार्थेषु साधनभावेन पुरस्तान्निहितः । 'पुरोव्ययम्' इति गतित्वात् 'गतिरनन्तरः' इति प्रकृतिस्वरत्वम् । सोयं यज्ञो मामभि मामेव लक्षीकृत्य अधिकमर्वाक् संक्रामतु आगच्छतु । अर्वागञ्चतीति 'ऋत्विक्' इत्यादिना क्विन्, 'क्विन्प्रत्ययस्य कुः' इति कुत्वम् । अमुष्माद्देवदत्तादेरपक्रम्य यो मां द्वेष्टि तं हित्वा मामभि संक्रामतु ॥
2 अथ द्वितीया - निर्देवमिति ॥ पङ्क्तिविशेषः । निर्देवं निर्गता देवा यस्मात्तं निस्स्वाहाकारवषट्कारतया देवैर्बहिष्कृतं निर्वीरं निर्गतवीरं देवेन पुरुषकारेण च विरहितं कृत्वा विष्कन्धं विविधशोषणं शरीरं कृपणं तस्मिन् हीयतां स्थाप्यताम् । हि गतौ । दधातेर्वा छान्दसो हिभावः । उत्तरार्धर्चे स्थितं शरीरग्रहणमिह संबध्यते । यद्वा - द्वेष्टरि निर्देवादिगुणे कृते तस्मिन् तस्य शरीरं विविधशोषं हीयतां क्षीयताम् । जहातेर्घुमास्थादिना ईत्वम् । स्कन्धेर्घञ् । 'वेस्कन्देरनिष्ठायाम्' इति षत्वम् । व्यत्ययेन घत्वम् । सर्वत्राव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा - विरूपस्कन्धावयवं शरीरम् । सुषामादित्वात् षत्वम् । तद्द्वेष्टरि स्थाप्यताम् । तादृशं वा तत्क्षीयतां प्रवृत्त्यभावेन । तदेवाह - यज्ञशमलं शमेरौणादिको लप्रत्ययः । अगागमश्च । कुसीदं वृद्धिप्रयोगजीवनं यज्ञशमलं यज्ञानर्हत्वनिमित्तं तस्मिन् सीदतु जीविकात्वेन वर्तताम् । ततश्चायज्ञीयत्वं 'यज्ञेन देवेभ्यः' इति वचनात् न कदाचिदप्यनृणस्स्यात् । यज्ञनिमित्तानि च श्रेयांसि न प्राप्नुयात् । योस्वान् द्वेष्टीति ॥
3 अथ तृतीया - यज्ञ यज्ञस्येति ॥ उपरिष्टाद्बृहती चतुर्थस्य द्वादशा क्षरत्वात् अन्येषां चाष्टाक्षरत्वात् । उक्तं यज्ञो मामभिसंक्रामत्विति; अधुना यज्ञं प्रत्यक्षवदाह - हे यज्ञ! यज्ञस्य सम्यगनुष्ठितस्थ तव यत्तेजः तेन मामभिसंक्राम यथा मय्यपि तेजः स्यात्, यथा चाहं ब्राह्मणान् ऋत्विजो देवांश्च यज्ञस्य तव तपसा इह अस्मिन् प्रयोगे आह्वये आह्वयामि; तव हि तेजसा निर्भयोऽहं इमान् आह्वातुमर्हामि । हे सव! महायज्ञ! । ह्वयतेर्लटि शपो लुक् । 'बहुलं छन्दसि' इति संप्रसारणम् ॥
4 अथ चतुर्थी - इष्टेनेति ॥ द्विपदा जगती द्व्यक्षराधिका । अहमादिः द्वितीयः पादः । पादमध्येवस्यति छन्दोविचितिव्यत्ययोऽयम् । हे सव त्वयि मयि संक्रान्ते अहं तव इष्टेन त्वत्संबन्धिना यजमानेन पक्वमुपहुवे उपह्वयामि मम भोगार्थं आकाङ्क्षामि । किंच - तवेष्टेन सुकृतं प्रजां पशून् संवृजे समाकर्षामि ॥
5 अथ पञ्चमी - प्रैषानिति । । उपरिष्टाज्ज्योतिर्जगती, चतुर्थस्य पादस्याष्टाक्षरत्वात् । प्रैषादयः प्रसिद्धाः । तान् त्वदर्थमाशृणोमि आश्रयामि । श्रयतेर्विकरणव्यत्ययः, संप्रसारणं छान्दसम् । धात्वन्तरं वा द्रष्टव्यम् । प्रैष्यन्ते एभिरिति प्रैषाः 'प्रादूहोढोढ्यैषैष्येषु' इति वृद्धिः, थाथादिनोत्तरपदान्तोदात्तत्वम् । 'समिधामाधाने षेण्यः' इति षित्वात् ङीष् । आघार्यते इत्याघारौ । आज्यं भागो ययोः । आश्रुतं अश्रावितम् । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । प्रत्याश्रुतं प्रत्याश्रावितम् । पूर्वेणानन्तरस्य गतेः स्वरः । प्रयाजाः प्रथमयागाः । 'प्रयाजानू-

याजौ यज्ञाङ्गे' इति कुत्वाभावः । स्विष्टं करोतीति स्विष्टकृत् । इडा प्रसिद्धा । एतानाश्रित्य आशिषः आशासनीयानि फलानि । 'आशासः क्वौ' इतीत्वम् । सुवः स्वर्गं च आवृञ्जे आवृञ्जामि । स्वर्गस्य प्राधान्यात्पुनरुपादानम् यथा - 'ब्राह्मणा आयाता वसिष्ठोप्यायातः' इति ॥

6 अथ षष्ठी - अग्निनेति ॥ पुरस्ताज्ज्योतिर्जगती; प्रथमस्याष्टाक्षरत्वात् । अहमादिश्चतुर्यः पादः । अग्न्यादिदिः हविर्भाग्भिः देवताभिः याज्यानुवाक्याभ्यां च हविषां विधिप्रधानाभ्यां च त्वदर्थमहमुपहवे उपजुहोमि । हे सव! पूर्ववच्छपो लुक् । ततश्च यज्ञं वषट्कृतं कृतवषट्कारं विलक्षणं ते त्वत्प्रसादात् अहं आददे उत्पादयामि । वषट्छन्दस्यौर्यादित्वेन गतित्वात् 'गतिरनन्तरः' इति गतेः स्वरः ॥
7 अथ सप्तमी - स्तुतमित्यादि ॥ इयमपि परस्ताज्ज्योतिर्जगती । पूर्ववत् अहमादिश्चतुर्थः पादः । स्तुतं स्तोत्रं तदादीनि इडान्तानि आवृञ्जे आकर्षामि । ततः एतैः आशिषः स्वर्गं च आवृञ्जे । किं च पत्नीसंयाजान् ते त्वदर्थं अहं उपहुवे उपजुहोमि । हे सव! कि च त्वदर्थं समिष्टयजुः आददे निर्वर्तयामि ॥
8 अथाष्टमी - पशूनिति ॥ अस्तारपङ्क्तिः ; प्रथमयोरष्टाक्षरत्वात् । उक्तः सामान्येन यज्ञः, अधुना तद्विशेषा उच्यन्ते - पशून् अग्नीषोमीयादीन् सुतं सोमं पुरोडाशान् सवनीयान् सवनानि प्रातस्सवनादीनि उत अपि च यज्ञं देवांश्च सेन्द्रान् ते त्वदर्थं उपहुवे तव समीपे आह्वयामि । हे सव! अग्निमुखान् देवान् सोमवतश्च ये च विश्वे देवाः तांश्चाहमाह्वयामि ॥
इति सप्तमे तृतीये एकादशोनुवाकः ॥