आ॒दि॒त्या अ॑कामयन्तो॒-भयो᳚र्लो॒कयोर्॑ ऋद्ध्नुया॒मेति॒ त ए॒तं च॑तुर्दशरा॒त्र- म॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै त उ॒भयो᳚-र्लो॒कयो॑-रार्द्ध्नुवन्न॒स्मिꣳश्चा॒-मुष्मिꣳ॑श्च॒ य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑. ऋद्ध्नुवन्त्य॒स्मिꣳश्चा॒-मुष्मिꣳ॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्ताऽऽ*र॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ यत् प॑रा॒चीना॑नि पृ॒ष्ठानि॒ - [ ]
पदपाठः (Word-by-word)
आ॒दि॒त्याः । अ॒का॒म॒य॒न्त॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्नु॒या॒म॒ । इति॑ । ते । ए॒तम् । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । उ॒भयोः᳚ । लो॒कयोः᳚ । आ॒द्र्ध्नु॒व॒न्न् । अ॒स्मिन्न् । च॒ । अ॒मुष्मिन्न्॑ । च॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् । आस॑ते । उ॒भयोः᳚ । ए॒व । लो॒कयोः᳚ । ऋ॒द्ध्नु॒व॒न्ति॒ । अ॒स्मिन्न् । च॒ । अ॒मुष्मिन्न्॑ । च॒ । च॒तु॒र्द॒श॒रा॒त्र इति॑ चतुर्दश - रा॒त्रः । भ॒व॒ति॒ । स॒प्त । ग्रा॒म्याः । ओष॑धयः । स॒प्त । आ॒र॒ण्याः । उ॒भयी॑षाम् । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । यत् । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 त्रयश्चतुर्दशरात्रास्तत्रायं प्रथमोऽतिरात्रः पृष्ठ्यष्षडह आवृत्तः । पृष्ठ्यष्षडहोतिरात्र इति । तं विदधाति - आदित्या इत्यादि । सप्तग्राम्यावरोधः ॥
2 यत्पराचीनानीत्यादि ॥ ऊर्ध्वमुखानि त्रिवृदादीनि त्रयस्त्रिंशान्तानि पृष्ठानि भवन्ति । तस्मात्तैरमुं लोकमभिजयन्ति । तस्मात्तदनन्तरं मध्ये समृद्धत्वात् प्रतीचीनानि प्रत्यङ्मुरवानि त्रयस्त्रिंशादीनि त्रिवृदन्तानि पृष्ठानि भवन्ति तस्मात्तैरिमं मनुष्यलोकं अभिजयन्त्येव । एवं त्रयस्त्रिंशस्तोमौ मध्यतः मध्यमौ दिवसौ सप्तमाष्टमौ भवतः । तेन साम्राज्यं गच्छन्ति । मध्ये समृद्धत्वात् । यस्मादेवं तस्माच्चतुर्दशरात्रयाजिनोधिराजाः स्वामिनः समानानां भवन्ति समानैः परिगृहीता भवन्ति ॥
इति सप्तमे तृतीये चतुर्थोनुवाकः ॥