प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.3.6.2 TS 7.3.6.2
गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति पञ्चदशरा॒त्रो भ॑वति पञ्चद॒शो वज्रो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॒ ( ) परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
गौः । अ॒सौ । आयुः॑ । ए॒षु । ए॒व । लो॒केषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अस॑त्रम् । वै । ए॒तत् । यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः - मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः - माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः-मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ । छ॒न्दो॒मा इति॑ छन्दः - माः । ओज॑सि । ए॒व । वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । प॒ञ्च॒द॒श॒रा॒त्र इति॑ पञ्चदश - रा॒त्रः । भ॒व॒ति॒ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । वज्रः॑ । वज्र᳚म् । ए॒व । भ्रातृ॑व्येभ्यः । प्रेति॑ । ह॒र॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । इ॒न्द्रि॒यस्य॑ ( ) । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 51