र्द॑हन्ते पञ्चदशरा॒त्रेणौजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्य॑मा॒त्मन् द॑धत ए॒ता ए॒व प॑श॒व्याः᳚ पञ्च॑दश॒ वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः सं॑ॅवथ्स॒र आ᳚प्यते संॅवथ्स॒रं प॒शवोऽनु॒ प्र जा॑यन्ते॒ तस्मा᳚त् पश॒व्या॑ ए॒ता ए॒व सु॑व॒र्ग्याः᳚ पञ्च॑दश॒ वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः सं॑ॅवथ्स॒र आ᳚प्यते संॅवथ्स॒रः सु॑व॒र्गो लो॒कस्तस्मा᳚थ् सुव॒र्ग्या᳚ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ - [ ]
पदपाठः (Word-by-word)
द॒ह॒न्ते॒ । प॒ञ्च॒द॒श॒रा॒त्रेणेति॑ पञ्चदश - रा॒त्रेण॑ । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । आ॒त्मन्न् । द॒ध॒ते॒ । ए॒ताः । ए॒व । प॒श॒व्याः᳚ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । वै । अ॒द्र्ध॒मा॒सस्येत्य॒॑द्र्ध - मा॒सस्य॑ । रात्र॑यः । अ॒द्र्ध॒मा॒स॒श इत्य॑द्र्धमास - शः । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । आ॒प्य॒ते॒ । सं॒ॅव॒थ्स॒रमिति॑ सं-व॒थ्स॒रम् । प॒शवः॑ । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । तस्मा᳚त् । प॒श॒व्याः᳚ । ए॒ताः । ए॒व । सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । वै । अ॒द्र्ध॒मा॒सस्येत्य॑द्र्ध -मा॒सस्य॑ । रात्र॑यः । अ॒द्र्ध॒मा॒स॒श इत्य॑द्र्धमास - शः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । आ॒प्य॒ते॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । तस्मा᳚त् । सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् ।