पञ्चशत् 1 #
चर्माव॑ भिन्दन्ति पा॒प्मान॑मे॒वैषा॒मव॑ भिन्दन्ति॒ माऽप॑ राथ्सी॒र्माऽति॑ व्याथ्सी॒रित्या॑ह संप्र॒त्ये॑वैषां᳚ पा॒प्मान॒मव॑ भिन्दन्त्युदकु॒म्भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीयं॒ परि॑ नृत्यन्ति प॒दो नि॑घ्न॒तीरि॒दंम॑धुं॒ गाय॑न्त्यो॒ मधु॒ वै दे॒वानां᳚ पर॒म-म॒न्नाद्यं॑ पर॒ममे॒वा-न्नाद्य॒मव॑ रुन्धते प॒दो नि घ्न॑न्ति मही॒यामे॒वैषु॑ दधति ॥
पदपाठः (Word-by-word)
चर्म॑ । अवेति॑ । भि॒न्द॒न्ति॒ । पा॒प्मान᳚म् । ए॒व । ए॒षा॒म् । अवेति॑ । भि॒न्द॒न्ति॒ । मा । अपेति॑ । रा॒थ्सीः॒ । मा । अतीति॑ । व्या॒थ्सीः॒ । इति॑ । आ॒ह॒ । स॒प्रं॒तीति॑ सं - प्र॒ति । ए॒व । ए॒षा॒म् । पा॒प्मान᳚म् । अवेति॑ । भि॒न्द॒न्ति॒ । उ॒द॒कु॒म्भानित्यु॑द-कु॒म्भान् । अ॒धि॒नि॒धायेत्य॑धि - नि॒धाय॑ । दा॒स्यः॑ । मा॒र्जा॒लीय᳚म् । परीति॑ । नृ॒त्य॒न्ति॒ । प॒दः । नि॒घ्न॒तीरिति॑ नि - घ्न॒तीः । इ॒दंम॑धु॒मिती॒दं - म॒धु॒म् । गाय॑न्त्यः । मधु॑ । वै । दे॒वाना᳚म् । प॒र॒मम् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । प॒र॒मम् । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । प॒दः । नीति॑ । घ्न॒न्ति॒ । म॒ही॒याम् । ए॒व । ए॒षु॒ । द॒ध॒ति॒ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 चर्मावभिन्दन्तीत्यादि ॥ पूर्वोक्तं चर्म ब्राह्मणेन सम्मितमाग्नीध्रेण मारुतं कवचिनो बाणेन अवभिन्दन्ति । राजपुत्रा इत्येके । एषां सत्रिणां पाप्मानमेवावभिन्दन्ति अनेन चर्मावभेदेन । माऽपरात्सीः लक्षादन्यत्र व्यथनं मा कार्षीः । माऽतिव्यात्सीः वेगमतीत्य परस्तात् बाणं मा जीगम इत्याह हे वेदिन् । संप्रत्येवेति । सप्रति कृतक्रियमाणकरिष्यमाणसर्वपापक्षयकरत्वं सम्यक्त्वं युक्तरूपं यदेषामिति ॥
2 उदकुम्भानित्यादि ॥ उदकुम्भान् शिरस्यधिनिधाय दास्यो दासकुमार्यो मार्जालीयं परितो नृत्यन्ति पदः पदा निघ्नतीः निघ्नन्त्यः कुटित्वा न यन्त्यः (कुटिलं यन्त्यः) इदंमधुं गायन्त्यः 'इदं मधु इदं मधु' इत्येवं गायन्त्यः । केचिदाहुः - 'इयं वाव सरघा । तस्या अग्निरेव सारधं मधु' इत्यादिमन्त्रः इदम्मधुशब्देनोच्यते इति ॥
3 मधु वा इत्यादि ॥ गतम् । महीयां पूजाम् । महीङ् कण्ड्वादिर्यगन्तः, ततः 'अप्रत्ययात्' इत्यकारप्रत्ययः ॥
इति सप्तमे पञ्चमे दशमोनुवाकः ॥