पञ्चशत् 1 #
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ विष्णु॑स्त्वा युनक्त्व॒स्य य॒ज्ञ्स्यर्द्ध्यै॒ मह्यꣳ॒॒ सन्न॑त्या अ॒मुष्मै॒ कामा॒याऽऽ*यु॑षे त्वा प्रा॒णाय॑ त्वा ऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा॒ व्यु॑ष्ट्यै त्वा र॒य्यै त्वा॒ राध॑से त्वा॒ घोषा॑य त्वा॒ पोषा॑य त्वा ऽऽराद्घो॒षाय॑ त्वा॒ प्रच्यु॑त्यै त्वा ॥
पदपाठः (Word-by-word)
कः । त्वा॒ । यु॒न॒क्ति॒ । सः । त्वा॒ । यु॒न॒क्तु॒ । विष्णुः॑ । त्वा॒ । यु॒न॒क्तु॒ । अ॒स्य । य॒ज्ञ्स्य॑ । ऋद्ध्यै᳚ । मह्य᳚म् । सन्न॑त्या॒ इति॒ सं - न॒त्यै॒ । अ॒मुष्मै᳚ । कामा॑य । आयु॑षे । त्वा॒ । प्रा॒णायेति॑ प्र - अ॒नाय॑ । त्वा॒ । अ॒पा॒नायेत्य॑प - अ॒नाय॑ । त्वा॒ । व्या॒नायेति॑ वि - अ॒नाय॑ । त्वा॒ । व्यु॑ष्ट्या॒ इति॒ वि - उ॒ष्ट्यै॒ । त्वा॒ । र॒य्यै । त्वा॒ । राध॑से । त्वा॒ । घोषा॑य । त्वा॒ । पोषा॑य । त्वा॒ । आ॒रा॒द्घो॒षायेत्या॑रात् - घो॒षाय॑ । त्वा॒ । प्रच्यु॑त्या॒ इति॒ प्र - च्यु॒त्यै॒ । त्वा॒ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ परिधिमन्त्रः - कस्त्वेति ॥ तत्रामुष्मै कामायेत्यन्ताः षट् मध्ये । 'आयुषे त्वा' इत्यारभ्य 'रय्यै त्वा' इत्यन्ताः दक्षिणे षट् । शेषाः पञ्च राधसेत्याद्या उत्तरे । कः प्रजापतिरेव त्वा युनक्ति योक्तुमर्हति । तस्मात् स एव त्वा युनक्तु यस्तस्यापि योक्ता अस्य यज्ञस्य समृद्ध्यै मम च सन्तत्यै सर्वो मां प्रति सन्नमेदिति अमुष्मै कामाय प्रजायै वा । अमुष्मा इत्यत्राभीष्टः कामो निर्देष्टव्यः । राधोऽन्नम् । घोषः कीर्तिः । पोष पश्वादेः । आरात्घोषः आरात् शब्दग्राहित्वम् । प्रच्युतिः सर्वदुःखनिवृत्तिः; प्रकृष्टा वा च्युतिर्गतिः स्वर्गाख्या ॥
इति सप्तमे पञ्चमे त्रयोदशोनुवाकः ॥