अनुवाकः 21 TS 7.5.21

(A21)

(आ॒ग्ने॒य - श्चतु॑र्विꣳशतिः)

अनुवाकः 21 - Complete Audio

TS 7.5.21 - स्वरानुगामी

0:00 0:00
PS1.1 आ॒ग्ने॒यो᳚ऽष्टाक॑पालः सौ॒म्यश्च॒रुः सा॑वि॒त्रो᳚ऽष्टाक॑पालः पौ॒ष्णश्च॒रू
PS1.2 रौ॒द्रश्च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे
PS1.3 यदि॒ नाऽऽ*गच्छे॑-द॒ग्नये-ऽꣳ॑हो॒मुचे॒-ऽष्टाक॑पालः सौ॒र्यं पयो॑
PS1.4 वाय॒व्य॑ आज्य॑भागः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.21.1 TS 7.5.21.1
आ॒ग्ने॒यो᳚ऽष्टाक॑पालः सौ॒म्यश्च॒रुः सा॑वि॒त्रो᳚ऽष्टाक॑पालः पौ॒ष्णश्च॒रू रौ॒द्रश्च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नाऽऽ*गच्छे॑-द॒ग्नये-ऽꣳ॑हो॒मुचे॒-ऽष्टाक॑पालः सौ॒र्यं पयो॑ वाय॒व्य॑ आज्य॑भागः ॥
पदपाठः (Word-by-word)
आ॒ग्ने॒यः । अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । सौ॒म्यः । च॒रुः । सा॒वि॒त्रः । अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । पौ॒ष्णः । च॒रुः । रौ॒द्रः । च॒रुः । अ॒ग्नये᳚ । वै॒श्वा॒न॒राय॑ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । मृ॒गा॒ख॒र इति॑ मृग - आ॒ख॒रे । यदि॑ । न । आ॒गच्छे॒दित्या᳚-गच्छे᳚त् । अ॒ग्नये᳚ । अꣳ॒॒हो॒मुच॒ इत्यꣳ॑हः-मुचे᳚ । अ॒ष्टाक॑पाल॒ इत्य॒ष्टा-क॒पा॒लः॒ । सौ॒र्यम् । पयः॑ । वा॒य॒व्यः॑ । आज्य॑भाग॒ इत्याज्य॑ - भा॒गः॒ ॥
पदसंख्या: 24
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

(SB) 1अथाश्वस्य रोगादिनिमित्ते प्राप्ते प्रायश्चित्तेष्टय उच्यन्ते । तथा च ब्राह्मणम् - 'यद्यश्वमुपतपद्विन्देत् । आग्नेयमष्टाकपालं निर्वपेत्' इत्यादि । आग्नेय इति ॥ मृगाखरे - अश्वनिवासस्थाने यदि नागच्छेत् तत्रानागमनमेकं निमित्तं, निमित्तान्तराणि तु ब्राह्मणे द्रष्टव्यानि । तान्येतानि नव हवींषि प्रायश्चित्तरूपाणि ॥

इति माधवीये सप्तमे पञ्चमे एकविंशोनुवाकः ॥