अनुवाकः 18 TS 7.5.18

(A18)

(आ ब्रह्म॒ - न्नेक॑चत्वारिꣳशत् )

अनुवाकः 18 - Complete Audio

TS 7.5.18 - स्वरानुगामी

0:00 0:00
PS1.1 आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी
PS1.2 जा॑यता॒मा ऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑
PS1.3 इष॒व्यः॑ शूरो॑ महार॒थो जा॑यतां॒
PS1.4 दोग्ध्री॑धे॒नुर्वोढा॑ ऽन॒ड्वाना॒शुः सप्तिः॒ पुर॑न्धि॒र्योषा॑
PS1.5 जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवा
PS1.6 ऽऽस्य यज॑मानस्य वी॒रो जा॑यतां
PS1.7 निका॒मेनि॑कामे नः प॒र्जन्यो॑ वर्.षतु
PS1.8 फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्तां
PS1.9 ॅयोगक्षे॒मोनः॑ कल्पतां

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.18.1 TS 7.5.18.1
आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा ऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यतां॒ दोग्ध्री॑धे॒नुर्वोढा॑ ऽन॒ड्वाना॒शुः सप्तिः॒ पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवा ऽऽस्य यज॑मानस्य वी॒रो जा॑यतां निका॒मेनि॑कामे नः प॒र्जन्यो॑ वर्.षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्तां ॅयोगक्षे॒मोनः॑ कल्पतां ॥
पदपाठः (Word-by-word)
एति॑ । ब्रह्मन्न्॑ । ब्रा॒ह्म॒णः । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म-व॒र्च॒सी । जा॒य॒ता॒म् । एति॑ । अ॒स्मिन्न् । रा॒ष्ट्रे । रा॒ज॒न्यः॑ । इ॒ष॒व्यः॑ । शूरः॑ । म॒हा॒र॒थ इति॑ महा - र॒थः । जा॒य॒ता॒म् । दोग्ध्री᳚ । धे॒नुः । वोढा᳚ । अ॒न॒ड्वान् । आ॒शुः । सप्तिः॑ । पुर॑न्धिः । योषा᳚ । जि॒ष्णूः । र॒थे॒ष्ठा इति॑ रथे - स्थाः । स॒भेयः॑ । युवा᳚ । एति॑ । अ॒स्य । यज॑मानस्य । वी॒रः । जा॒य॒ता॒म् । नि॒का॒मेनि॑काम॒ इति॑ निका॒मे - नि॒का॒मे॒ । नः॒ । प॒र्जन्यः॑ । व॒र्.॒ष॒तु॒ । फ॒लिन्यः॑ । नः॒ । ओष॑धयः । प॒च्य॒न्ता॒म् । यो॒ग॒क्षे॒म इति॑ योग - क्षे॒मः । नः॒ । क॒ल्प॒ता॒म् ॥
पदसंख्या: 41
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ ब्रह्मवर्चसं उपजुहोति - आ ब्रह्मन्नित्यादि ॥ ब्रह्मन् ब्रह्मणि ब्राह्मणजातौ अस्य यजमानस्य सम्बन्धी सर्वो ब्राह्यणो ब्रह्मवर्चसी आजायताम् । अस्मिन्राष्ट्रे यजमानस्य सम्बन्धी राजन्यः सर्वोपि क्षत्रः इषव्यः इष्वादिषु साधुः शूरः महावीरः महारथः रथचर्यायां प्रकृष्टश्च आजायताम् । 'राजश्वशुराद्यत्' 'राज्ञोपत्ये जातिग्रहणम्' । दोग्ध्री बहुक्षीरा सुदोहा च धेनुराजायतां अस्य यजमानस्य । साधुकारिणि तृन् । वोढा साधुवाही अनड्वानाजायताम् । आशुश्शीघ्रगतिः सप्तिराजायताम् । पुरन्धिः रूपवती पुरं शरीरं धीयतेऽस्यामिति । 'कर्मण्यधिकरणे च' इति किः । पूर्वपदस्याम्भावश्छान्दसः । दासीभारादिः । पुरुभिर्वा ध्यातव्या पुरन्धिः । पृषोदरादिः । ईदृशी योषा योषित् अस्य यजमानस्य आजायताम् । जिष्णुः जयशीलः रथेष्ठाः रथे स्थातुं शक्तः । रथे तिष्ठति सङ्ग्रामेष्विति 'सुपि स्थः' इति कः, 'तत्पुरुषे कृति बहुलम्' इत्यलुक्, वचनव्यत्ययः । सभेयः सभायां साधुः रूपवत्तया, 'डश्छन्दासि; इति डः । युवा तरुणः । वीरः विक्रान्तः । एवं जिष्ण्वित्यादिगुणयुकः पुरुषोस्य यजमानस्य आजायताम् । निकामेनिकामे इच्छायां नः अस्माकं पर्जन्यो वर्षतु । फलिन्यः बहुफला ओषधयः अस्माकं राष्ट्रे पच्यन्ताम् । कर्मकर्तरि यत् । योगसहितः क्षेमः योगक्षेमः । शाकपार्थिवादित्वादुत्तरपदलोपी समासः । इतरेतरयोगद्वन्द्वे वा वचनव्यत्ययः । समाहारद्वन्द्वे वा लिङ्गव्यत्ययः । योगश्च क्षेमश्चास्मिन् राष्ट्रे प्रजानां कल्पतां सम्पद्यताम् । अलब्धलाभो योगः । लब्धस्य परिपालनं क्षेमः ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये सप्तमे काण्डे पञ्चमे प्रश्ने अष्टादशोनुवाकः ॥