अनुवाकः 19 TS 7.5.19

(A19)

(वा॒युस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ र॑भे स्व॒स्ति मा॒ सं - त्रिच॑त्वारिꣳशच्च)

अनुवाकः 19 - Complete Audio

TS 7.5.19 - स्वरानुगामी

0:00 0:00
PS1.1 आऽक्रान्॑ वा॒जी पृ॑थि॒वीम॒ग्निं ॅयुज॑मकृत
PS1.2 वा॒ज्यर्वा ऽऽक्रान्॑ वा॒ज्य॑न्तरि॑क्षं ॅवा॒युं
PS1.3 ॅयुज॑मकृत वा॒ज्यर्वा॒ द्यां ॅवा॒ज्याऽक्रꣳ॑स्त॒
PS1.4 सूर्यं॒ ॅयुज॑मकृत वा॒ज्यर्वा॒ ऽग्निस्ते॑
PS1.5 वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ
PS1.6 र॑भे स्व॒स्ति मा॒ सं
PS1.7 पा॑रय वा॒युस्ते॑ वाजि॒न्॒ युङ्ङनु॒
PS1.8 त्वा ऽऽ र॑भे स्व॒स्ति
PS1.9 मा॒ सं - [
PS1.10 ]
PS2.1 पा॑रया ऽऽदि॒त्यस्ते॑ वाजि॒न्॒ युङ्ङनु॒
PS2.2 त्वा ऽऽ र॑भे स्व॒स्ति
PS2.3 मा॒ सं पा॑रय प्राण॒धृग॑सि
PS2.4 प्रा॒णं मे॑ दृꣳह व्यान॒धृग॑सि
PS2.5 व्या॒नं मे॑ दृꣳहा ऽपान॒धृग॑स्यपा॒नं
PS2.6 म॑ दृꣳह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑
PS2.7 धेहि॒ श्रोत्र॑मसि॒ श्रोत्रं॒ मयि॑
PS2.8 धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.19.1 TS 7.5.19.1
आऽक्रान्॑ वा॒जी पृ॑थि॒वीम॒ग्निं ॅयुज॑मकृत वा॒ज्यर्वा ऽऽक्रान्॑ वा॒ज्य॑न्तरि॑क्षं ॅवा॒युं ॅयुज॑मकृत वा॒ज्यर्वा॒ द्यां ॅवा॒ज्याऽक्रꣳ॑स्त॒ सूर्यं॒ ॅयुज॑मकृत वा॒ज्यर्वा॒ ऽग्निस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ र॑भे स्व॒स्ति मा॒ सं पा॑रय वा॒युस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ र॑भे स्व॒स्ति मा॒ सं - [ ]
पदपाठः (Word-by-word)
एति॑ । अ॒क्रा॒न् । वा॒जी । पृ॒थि॒वीम् । अ॒ग्निम् । युज᳚म् । अ॒कृ॒त॒ । वा॒जी । अर्वा᳚ । एति॑ । अ॒क्रा॒न् । वा॒जी । अ॒न्तरि॑क्षम् । वा॒युम् । युज᳚म् । अ॒कृ॒त॒ । वा॒जी । अर्वा᳚ । द्याम् । वा॒जी । एति॑ । अ॒क्रꣳ॒॒स्त॒ । सूर्य᳚म् । युज᳚म् । अ॒कृ॒त॒ । वा॒जी । अर्वा᳚ । अ॒ग्निः । ते॒ । वा॒जि॒न्न् । युङ् । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ । पा॒र॒य॒ । वा॒युः । ते॒ । वा॒जि॒न्न् । युङ् । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

(SB) 1अथाश्वानुमन्त्रणम् । तथा च ब्राह्मणम् - 'आऽक्रान् वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्टं पृथिवी सधस्थमित्यश्वमनुमन्त्रयते' इति । एतेषु त्रिषु मन्त्रेषु प्रथमम् मन्त्रं पठति - आऽक्रान् वाजीति ॥ वाजी वेगवानयमश्वः पृथिवीं आक्रान् आक्रान्तवान् । सोऽर्वा तस्यां पृथिव्यां अग्निं युजं योजयितारं व्यवहारनिर्वाहकं अकृत । एवमुत्तरत्रापि योज्यम् । हे वाजिन् अग्निः ते युङ् तव योजयिता सहायभूतः तस्मात् त्वां अन्वारभे । त्वं च स्वस्ति विनाशराहित्येन मां सम्पारय सम्यक् कर्मसमाप्तिं प्रापय । एवमुत्तरत्रापि योज्यम् । प्राणं दृंहति दृढीकरोतीति प्राणधृक् । हे अश्व त्वं तादृशोऽसि अतो मे प्राणं दृढीकुरु । एवमुत्तरत्रापि । हे अश्व त्वं चक्षुरसि अतो मयि चक्षुः स्थापय । एवमुत्तरत्रापि ॥

इति माधवीये सप्तमे पञ्चमे एकोनविंशोनुवाकः ॥
पञ्चशत् 2 #
TS 7.5.19.2 TS 7.5.19.2
पा॑रया ऽऽदि॒त्यस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वा ऽऽ र॑भे स्व॒स्ति मा॒ सं पा॑रय प्राण॒धृग॑सि प्रा॒णं मे॑ दृꣳह व्यान॒धृग॑सि व्या॒नं मे॑ दृꣳहा ऽपान॒धृग॑स्यपा॒नं म॑ दृꣳह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्रं॒ मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि ॥
पदपाठः (Word-by-word)
पा॒र॒य॒ । आ॒दि॒त्यः । ते॒ । वा॒जि॒न्न् । युङ् । अन्विति॑ । त्वा॒ । एति॑ । र॒भे॒ । स्व॒स्ति । मा॒ । समिति॑ । पा॒र॒य॒ । प्रा॒ण॒धृगिति॑ प्राण - धृक् । अ॒सि॒ । प्रा॒णमिति॑ प्र - अ॒नम् । मे॒ । दृꣳ॒॒ह॒ । व्या॒न॒धृगिति॑ व्यान - धृक् । अ॒सि॒ । व्या॒नमिति॑ वि - अ॒नम् । मे॒ । दृꣳ॒॒ह॒ । अ॒पा॒न॒धृगित्य॑पान - धृक् । अ॒सि॒ । अ॒पा॒नमित्य॑प - अ॒नम् । मे॒ । दृꣳ॒॒ह॒ । चक्षुः॑ । अ॒सि॒ । चक्षुः॑ । मयि॑ । धे॒हि॒ । श्रोत्र᳚म् । अ॒सि॒ । श्रोत्र᳚म् । मयि॑ । धे॒हि॒ । आयुः॑ । अ॒सि॒ । आयुः॑ । मयि॑ । धे॒हि॒ ॥
पदसंख्या: 43