पदपाठः (Word-by-word)
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
(SB) 1अथान्ये अन्नहोममन्त्रा उच्यन्ते । तथा च ब्राह्मणम् - 'जज्ञि बीजमिति जुहोत्यनन्तरित्यै' इति । जज्ञीति ॥ यदेतत् व्रीह्यादिबीजं तत् जज्ञि जननस्वभावमस्तु । अस्त्विति सर्वत्राध्याहारः । पर्जन्यो वर्ष्टा वृष्टिकारोस्तु । सस्यं पक्ता पाकशीलम् । ओषधयश्च सुपिप्पलाः शोभनफलाः । इयं पृथिवी स्वधिचरणा सुखेनाधिष्ठाय चरितुं शक्या । अग्निः सूपसदनः सुखेनोपसत्तुं परिचरितुं शक्यः । अन्तरिक्षं स्वध्यक्षं सुखेनाध्यक्षितव्यं धूमकेत्वाद्युत्पातरहितमित्यर्थः । पवमानः वायुः सुपावः अनुपद्रवकारी सञ्चारयुक्तः । द्यौः सूपस्थाना सुखेनावस्थातुं शक्या दैविकोपद्रवरहितेत्यर्थः । असो आदित्यः शिवं उपद्रवराहित्यं यथा भवति तथा तपन् वर्तताम् । अहोरात्रे यथापूर्वं कल्पादेवारभ्य येन क्रमेण प्रवृत्ते तथैवाद्यापि प्रवर्तेताम् । अर्धमासाः
न्यूनाधिकराहित्येन पञ्चदशदिनयुक्ताः । तथा मासाः त्रिंशद्दिनयुक्ताः । ऋतवः कॢप्ताः तत्तल्लक्षणोपेताः । संवत्सरः शान्तः प्रजापीडरहितः । एतैः पञ्चदशभिर्मन्त्रैः अन्नहोमाः कर्तव्याः ॥