अनुवाकः 3 TS 7.5.3

(A3)

(स॒मु॒द्रं ॅवै - चतु॑स्त्रिꣳशच्च)

अनुवाकः 3 - Complete Audio

TS 7.5.3 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति
PS1.2 मद्ध्य॒म उप॑ यन्त्युत्त॒म उप॑
PS1.3 यन्ति॒ तदा॑हु॒र्यां ॅवै त्रिरेक॒स्याह्न॑
PS1.4 उप॒सीद॑न्ति द॒ह्रं ॅवै साऽप॑राभ्यां॒
PS1.5 दोहा᳚भ्यां दु॒हेऽथ॒ कुतः॒ सा
PS1.6 धो᳚क्ष्यते॒ यां द्वाद॑श॒ कृत्व॑
PS1.7 उप॒सीद॒न्तीति॑ संॅवथ्स॒रꣳ स॒पांद्यो᳚त्त॒मे मा॒सि
PS1.8 स॒कृत् पृ॒ष्ठान्युपे॑यु॒स्तद्-यज॑माना य॒ज्ञ्ं प॒शूनव॑
PS1.9 रुन्धते समु॒द्रं ॅवा -
PS1.10 [ ]
PS2.1 ए॒ते॑नवा॒रम॑पा॒रं प्र प्ल॑वन्ते॒ ये
PS2.2 सं॑ॅवथ्स॒रमु॑प॒यन्ति॒ यद् बृ॑हद्-रथन्त॒रे अ॒न्वर्जे॑यु॒र्यथा॒
PS2.3 मद्ध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृक् तदनु॑थ्सर्गं
PS2.4 बृहद्-रथन्त॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठां ग॑च्छन्ति॒ सर्वे᳚भ्यो॒
PS2.5 वै कामे᳚भ्यः स॒न्धिर्दु॑हे॒ तद्-यज॑मानाः॒
PS2.6 सर्वा॒न् कामा॒नव॑ रुन्धते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.3.1 TS 7.5.3.1
प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मद्ध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒ तदा॑हु॒र्यां ॅवै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं ॅवै साऽप॑राभ्यां॒ दोहा᳚भ्यां दु॒हेऽथ॒ कुतः॒ सा धो᳚क्ष्यते॒ यां द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ संॅवथ्स॒रꣳ स॒पांद्यो᳚त्त॒मे मा॒सि स॒कृत् पृ॒ष्ठान्युपे॑यु॒स्तद्-यज॑माना य॒ज्ञ्ं प॒शूनव॑ रुन्धते समु॒द्रं ॅवा - [ ]
पदपाठः (Word-by-word)
प्र॒थ॒मे । मा॒सि । पृ॒ष्ठानि॑ । उपेति॑ । य॒न्ति॒ । म॒द्ध्य॒मे । उपेति॑ । य॒न्ति॒ । उ॒त्त॒म इत्यु॑त् - त॒मे । उपेति॑ । य॒न्ति॒ । तत् । आ॒हुः॒ । याम् । वै । त्रिः । एक॑स्य । अह्नः॑ । उ॒प॒सीद॒न्तीत्यु॑प - सीद॑न्ति । द॒ह्रम् । वै । सा । अप॑राभ्याम् । दोहा᳚भ्याम् । दु॒हे॒ । अथ॑ । कुतः॑ । सा । धो॒क्ष्य॒ते॒ । याम् । द्वाद॑श । कृत्वः॑ । उ॒प॒सीद॒न्तीत्यु॑प - सीद॑न्ति । इति॑ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । स॒पांद्येति॑ सं - पाद्य॑ । उ॒त्त॒म इत्यु॑त् - त॒मे । मा॒सि । स॒कृत् । पृ॒ष्ठानि॑ । उपेति॑ । इ॒युः॒ । तत् । यज॑मानाः । य॒ज्ञ्म् । प॒शून् । अवेति॑ । रु॒न्ध॒ते॒ । स॒मु॒द्रम् । वै ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उक्तं मासिमासि पृष्ठोपेतं दशमास्यं द्वादशमास्यं च द्विप्रकारं गवामयनम् । इदानीं तृतीयं प्रस्तूयते - प्रथम इत्यादि ॥ प्रथममध्यमोत्तमेष्वेव मासेषु पृष्ठान्युपेयुरिति । अथैतत्तृतीयदूषणेन चतुर्थं दर्शयति - तदाहुरिति । तत् तदर्थं या गामेकस्याह्नस्त्रिरुपसीदन्ति दुहन्ति सा अपराभ्यां द्वितीयतृतीयाभ्यां दह्रमल्पमेव क्षीरं दुहे दुग्धे हरति यदेवं सा कुतो धोक्ष्यते यां सत्रधेनुं द्वादकृत्व उपसीदन्ति न किंचिदपि सा दुग्धे । तस्मादभिप्लवैरेव संवत्सरं संपाद्य उत्तमे मासि सकृत्पृष्ठान्युपेयुः । ततो यजमानाः यज्ञं धेनुस्थानीयं पशूंश्च तत्क्षीरस्थानीयानवरुन्धते । दुह इति कर्मकर्तरि 'न दुहस्नुनमाम्' इति यगभावः । 'लोपस्त' इत्यादिना तलोपः ॥
2 समुद्रं वा इत्यादि - परागर्वाक्तीरे पारावारौ, ताभ्यां रहितं समुद्रमेते प्तप्लवन्ते ये संवत्सरमुपयन्ति । अगाधं अपारमित्येके । तत्र यद्बृहद्रथन्तरे अन्वर्जेयुः अविच्छेदेन स्वीकुर्युः तत्समुद्रस्य मध्ये प्लवस्वीकरणसदृशं वेदितव्यम् । अर्ज आर्जने, तस्मात् अमुत्सर्गमनुत्सृज्य छान्दसो णमुल् । अनुत्सृष्टबृहद्रथन्तरप्लवा एव ताभ्यां इत्या संवत्सरं समुद्रं समतीत्य प्रतिष्ठां गच्छन्ति ॥
3 सर्वेभ्य इत्यादि ॥ सन्धिः सकृद्दोह्या गौः न पुनःपुनर्दोह्या । सन्धिर्हि सर्वेभ्यः कामेभ्यः पर्याप्तं क्षीरं दुहे दुग्धे; तद्वत्सत्रधेनुरपि सकृत्पृष्ठोपयानेन सन्धिसदृशी सकृदेव सर्वान्कामान् दुग्धे । तस्माद्दोहनस्थानीयं पृष्ठोपयानं सकृत्कुर्वन्तो यजमानाः सर्वान्कामानवरुन्धत इति । अन्य आहुः - अन्यवत्सदोह्या गौः सन्धिरिति । सा हि सर्वकामपर्याप्तं क्षीरं पुनर्दोहेन क्षरति तद्वत्सत्रसन्धिरपि अन्यवत्सस्थानीयाभ्यां बृहद्रथन्तराभ्यामनुत्सर्गेण दुह्यमाना सर्वान् कामान् प्रयच्छतीति ॥
इति सप्तमे पञ्चमे तृतीयोनुवाकः ॥
पञ्चशत् 2 #
TS 7.5.3.2 TS 7.5.3.2
ए॒ते॑नवा॒रम॑पा॒रं प्र प्ल॑वन्ते॒ ये सं॑ॅवथ्स॒रमु॑प॒यन्ति॒ यद् बृ॑हद्-रथन्त॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मद्ध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृक् तदनु॑थ्सर्गं बृहद्-रथन्त॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठां ग॑च्छन्ति॒ सर्वे᳚भ्यो॒ वै कामे᳚भ्यः स॒न्धिर्दु॑हे॒ तद्-यज॑मानाः॒ सर्वा॒न् कामा॒नव॑ रुन्धते ॥
पदपाठः (Word-by-word)
ए॒ते । अ॒न॒वा॒रम् । अ॒पा॒रम् । प्रेति॑ । प्ल॒व॒न्ते॒ । ये । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । यत् । बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे । अ॒न्वर्जे॑यु॒रित्य॑नु - अर्जे॑युः । यथा᳚ । मद्ध्ये᳚ । स॒मु॒द्रस्य॑ । प्ल॒वम् । अ॒न्वर्जे॑यु॒रित्य॑नु - अर्जे॑युः । ता॒दृक् । तत् । अनु॑थ्सर्ग॒मित्यनु॑त् - स॒र्ग॒म् । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । इ॒त्वा । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ग॒च्छ॒न्ति॒ । सर्वे᳚भ्यः । वै । कामे᳚भ्यः । स॒न्धिरिति॑ सं - धिः । दु॒हे॒ । तत् । यज॑मानाः । सर्वान्॑ । कामान्॑ । अवेति॑ । रु॒न्ध॒ते॒ ॥
पदसंख्या: 34