अनुवाकः 14 TS 7.5.14

(A14)

(अ॒ग्नयेऽदि॑त्या॒ अनु॑मत्यै - स॒प्तच॑त्वारिꣳशत्)

अनुवाकः 14 - Complete Audio

TS 7.5.14 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराय
PS1.2 वास॒न्ताया॒-ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒
PS1.3 बार्.ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वे᳚भ्यो दे॒वेभ्यो॒
PS1.4 जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्.षि॑केभ्यो॒
PS1.5 द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒-मानु॑ष्टुभाभ्या-मेकविꣳ॒॒शाभ्यां᳚ ॅवैरा॒जाभ्याꣳ॑ शार॒दाभ्यां᳚
PS1.6 पय॒स्या॑ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑
PS1.7 शाक्व॒राय॒ हैम॑न्तिकाय च॒रुः स॑वि॒त्र
PS1.8 आ॑तिच्छन्द॒साय॑ त्रयस्त्रिꣳ॒॒शाय॑ रैव॒ताय॑ शैशि॒राय॒
PS1.9 द्वाद॑शकपा॒लो ऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑
PS1.10 वैश्वान॒राय॒ द्वाद॑शकपा॒लो ऽनु॑मत्यै च॒रुः
PS1.11 का॒य एक॑कपालः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.14.1 TS 7.5.14.1
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराय वास॒न्ताया॒-ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्.ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वे᳚भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्.षि॑केभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒-मानु॑ष्टुभाभ्या-मेकविꣳ॒॒शाभ्यां᳚ ॅवैरा॒जाभ्याꣳ॑ शार॒दाभ्यां᳚ पय॒स्या॑ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॒ हैम॑न्तिकाय च॒रुः स॑वि॒त्र आ॑तिच्छन्द॒साय॑ त्रयस्त्रिꣳ॒॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपा॒लो ऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लो ऽनु॑मत्यै च॒रुः का॒य एक॑कपालः ॥
पदपाठः (Word-by-word)
अ॒ग्नये᳚ । गा॒य॒त्राय॑ । त्रि॒वृत॒ इति॑ त्रि-वृते᳚ । राथ॑न्तरा॒येति॒ राथं᳚-त॒रा॒य॒ । वा॒स॒न्ताय॑ । अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । इन्द्रा॑य । त्रैष्टु॑भाय । प॒ञ्च॒द॒शायेति॑ पञ्च - द॒शाय॑ । बार्.ह॑ताय । ग्रैष्मा॑य । एका॑दशकपाल॒ इत्येका॑दश - क॒पा॒लः॒ । विश्वे᳚भ्यः । दे॒वेभ्यः॑ । जाग॑तेभ्यः । स॒प्त॒द॒शेभ्य॒ इति॑ सप्त - द॒शेभ्यः॑ । वै॒रू॒पेभ्यः॑ । वार्.षि॑केभ्यः । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । मि॒त्रावरु॑णाभ्या॒मिति॑ मि॒त्रा - वरु॑णाभ्याम् । आनु॑ष्टुभाभ्या॒मित्यानु॑- स्तु॒भा॒भ्या॒म् । ए॒क॒विꣳ॒॒शाभ्या॒मित्ये॑क-विꣳ॒॒शाभ्या᳚म् । वै॒रा॒जाभ्या᳚म् । शा॒र॒दाभ्या᳚म् । प॒य॒स्या᳚ । बृह॒स्पत॑ये । पाङ्क्ता॑य । त्रि॒ण॒वायेति॑ त्रि - न॒वाय॑ । शा॒क्व॒राय॑ । हैम॑न्तिकाय । च॒रुः । स॒वि॒त्रे । आ॒ति॒च्छ॒न्द॒सायेत्या॑ति - छ॒न्द॒साय॑ । त्र॒य॒स्त्रिꣳ॒॒शायेति॑ त्रयः - त्रिꣳ॒॒शाय॑ । रै॒व॒ताय॑ । शै॒शि॒राय॑ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श -क॒पा॒लः॒ । अदि॑त्यै । विष्णु॑पत्न्या॒ इति॒ विष्णु॑ - प॒त्न्यै॒ । च॒रुः । अ॒ग्नये᳚ । वै॒श्वा॒न॒राय॑ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । अनु॑मत्या॒ इत्यनु॑ - म॒त्यै॒ । च॒रुः । का॒यः । एक॑कपाल॒ इत्येक॑-क॒पा॒लः॒ ॥
पदसंख्या: 47
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ तत्रैव दशहविषमिष्टिं विदधाति - अग्नये गायत्रायेति ॥ देवतया छन्दसा स्तोमेन साम्ना ऋतुना विशेष्यते । सहोत्पत्त्यादिकृतः सम्बन्धविशेषः सर्वत्राग्न्यादीनां; गायत्र्यादीनां च क्वचित्प्राथम्यादिकृतश्च । सर्वत्राद्युदात्ता उत्साद्यञन्ता द्रष्टव्याः । अन्ये एताः पञ्चदशादयः 'स्तोमे डविधिः' इति डान्ताः । ऋतृभ्यः ऋत्वण् । वसन्तात्तु 'सर्वत्राण्च' इति चकारात् । अष्टाकपालादयः तद्धितार्थे द्विगवः । 'अध्यर्धपूर्वाद्द्विगोः' इति प्रत्ययस्य लुकि 'इगन्तकाल' इति पूर्वपदप्रकृतिस्वरत्वम् । वार्षिकेभ्यः । 'छन्दसि ठञ् ' इति ठक् ॥
2 पयस्या पयसि आमिक्षा । बृहस्पतिः । पारस्करादिः । हैमन्तिकाय 'हेमन्ताच्च' इति ठञ् । सवित्रे, 'उदात्तयणः' इति चतुर्थ्या उदात्तत्वम् । विष्णुपत्न्यै, 'विभाषा सपूर्वस्य' इति बहुव्रीहौ ङीब्नकारौ । कायः, 'कस्येत्' ॥
इति सप्तमे पञ्चमे चतुर्दशोनुवाकः ॥