पञ्चशत् 1 #
अ॒र्क्ये॑ण॒ वै स॑हस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताभ्य॒ इला᳚दें॒नेरां॒ ॅलूता॒मवा॑रुन्ध॒ यद॒र्क्यं॑ भव॑ति प्र॒जा ए॒व तद्-यज॑मानाः सृजन्त॒ इला᳚दं भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरां॒ ॅलूता॒मव॑ रुन्धते॒ तस्मा॒द्याꣳ समाꣳ॑ स॒त्रꣳ समृ॑द्धं॒ क्षोधु॑का॒स्ताꣳ समां᳚ प्र॒जा इषꣳ॒॒ ह्या॑सा॒मूर्ज॑मा॒दद॑ते॒ याꣳ समां॒ ॅव्यृ॑द्ध॒-मक्षो॑धुका॒स्ताꣳ समां᳚ प्र॒जा - [ ]
पदपाठः (Word-by-word)
अ॒र्क्ये॑ण । वै । स॒ह॒स्र॒श इति॑ सहस्र - शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । अ॒सृ॒ज॒त॒ । ताभ्यः॑ । इला᳚न्देन । इरा᳚म् । लूता᳚म् । अवेति॑ । अ॒रु॒न्ध॒ । यत् । अ॒र्क्य᳚म् । भव॑ति । प्र॒जा इति॑ प्र - जाः । ए॒व । तत् । यज॑मानाः । सृ॒ज॒न्ते॒ । इला᳚न्दम् । भ॒व॒ति॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । ए॒व । सृ॒ष्टाभ्यः॑ । इरा᳚म् । लूता᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । तस्मा᳚त् । याम् । समा᳚म् । स॒त्रम् । समृ॑द्ध॒मिति॒ सं - ऋ॒द्ध॒म् । क्षोधु॑काः । ताम् । समा᳚म् । प्र॒जा इति॑ प्र - जाः । इष᳚म् । हि । आ॒सा॒म् । ऊर्ज᳚म् । आ॒दद॑त॒ इत्या᳚ - दद॑ते । याम् । समा᳚म् । व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । अक्षो॑धुकाः । ताम् । समा᳚म् । प्र॒जा इति॑ प्र - जाः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अर्क्येणेत्यादि ॥ अर्क्याख्येन साम्ना प्रजापतिः सहस्रशः सहस्रंसहस्रं प्रजा बहुतमा असृजत । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । ताभ्यः सृष्टाभ्यः इलान्देन साम्ना इरामन्नं लूतां लवनशीलां प्रजाभिः विच्छिन्नां अवारुन्ध अविच्छेदेनाप्तवान् । लूनातेरौणादिकः तान्प्रत्ययः । यदर्क्यमित्यादि । साम्नस्स्तुतिः गता । इरां अन्दति बध्नातीति इरायदम् । अदि बन्धने, कर्मण्यण् । 'संज्ञायां च' इति पूर्वपदाद्युदात्तत्वम्, कपिलकादित्वाल्लत्वम् ॥
2 तस्मादित्यादि ॥ यस्मादित्थं प्रजाभ्य इरामाददते सत्रिणः तस्माद्यां समां संवत्सरसत्रं समृद्धं अन्नादिना भवति । अत्यन्तसंयोगे द्वितीया । तां समां प्रजाः क्षोधुकाः क्षुच्छीलाः स्युः । छान्दस उकञ् । हेतुमाह - इषमित्यादि । आसां प्रजानां इषमन्नं ऊर्जं रसं दुग्धादि च यस्मात्सत्रिण आददते तस्मात् क्षोधुकाः । अथ यां समां सत्रं व्यृद्धं क्षीरादिना असमृद्धं अक्षोधुकाः तां समां प्रजाः कुर्वते । हेतुमाह - न ह्यासामिति । उत्क्रोदतीत्युत्क्रोदं साम सर्वे यजमानाः कुर्वते । क्रुद कुत्सिते शब्दे । यथेत्यादि । उत्कृष्टरवं हर्षेण कुर्वते मुमुचानाः मुच्यमानाः । छान्दसः कर्मणि लिटः कानजादेशः । एवमेवेति । देवबन्धात् संवत्सरसत्रात् मुच्यमानाः उत्क्रोदं कुर्वते । एतत्सामकरणेन इषमूर्जं चात्मनि दधानाः धारणेन हेतुना । हेतौ शानच्, 'अभ्यस्तानामादिः' इत्यादेरुदात्तत्वम् ॥
3 वाण इत्यादि ॥ यदियं दण्ड इत्यादिस्थितेषु दशस्वप्यतिमथितेषु तेषु प्रत्येकं दशदश तन्तवः प्रोताः शततन्तुः वाणो वीणाविशेषः, तेन वाद्यमानेन आजिं धावन्ति । तदनभिजितस्याभिजित्यै भवति ॥
4 दुन्दुभीन् समाघ्नन्ति तदानीं युगपत् ध्मानयन्ति । परमेत्यादि । गतम् । भूमिदुन्दुभिमाघ्नन्ति । चर्माणाऽऽच्छादितमुखं भूगर्तं भूमिदुन्दुभिः पुच्छकाण्डेन । या वागिमां पृथिवीं प्रविष्टा तामवरुन्धे। अथो अपि च इमां जयत्येव सर्वा वाचः रथन्तरमनुष्यादीनाम् ॥
5 आर्द्रे चर्मन्निति ॥ आर्द्रचर्मनिमित्तं ब्राह्मणशूद्रौ आकर्षन्तौ कलहं कुर्वतः । 'आङो यमहनः' इत्यात्मनेपदम् । अन्य इत्यादि । तयोरन्य आक्रोशति निन्दति सत्रिणः 'इम उद्वासीकारिण इमे दुर्भतूमक्रन्न्' इति । अन्यो ब्रह्मणः प्रशंसति 'इमेऽरात्सुरिमे सुभूतमक्रन्न्'21 इति । 'एकान्याभ्याम्' इति प्रथमा तिङ्विभक्तिर्निहन्यते । तथा य आक्रोशति स एनान् उत्पुनाति शोधयति । यः प्रशंसति स पूतेष्वेतेषु अन्नाद्यं दधाति ॥
6 ऋषिकृतमित्यादि ॥ ऋषिभिः कृतं च देवैः कृतं च उपकारं दृष्टस्वरूपं पूर्वैर्मासैरेते सत्रिणोवरुन्धते भूतेछदां सामभिस्तदुभयमप्यवरुन्धते मनुष्यकृतं च दृष्टस्वरूपम् । सर्वत्र 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
7 यन्ति वा इत्यादि ॥ अवगच्छन्ति खल्वेते मिथुनत्वात् मिथुनशक्तिं जहति ये संवत्सरमुपयन्ति, बहुत्वात् कालस्य व्यपगतमिथुनशक्तिस्स्यात् । तस्मादन्तर्वेदि मिथुनौ सम्भवतः मिथुनकृत्यं सहाचरतः मैथुनं कुरुतः पुंश्चली मागधश्च । तेनैव मिथुनात् मिथुनभावान्नापगच्छन्ति सत्रिणः ॥
इति सप्तमे पञ्चमे नवमोऽनुवाकः ॥