पञ्चशत् 1 #
द॒त्वते॒ स्वाहा॑ ऽद॒न्तका॑य॒ स्वाहा᳚ प्रा॒णिने॒ स्वाहा᳚ ऽप्रा॒णाय॒ स्वाहा॒ मुख॑वते॒ स्वाहा॑ऽमु॒खाय॒ स्वाहा॒ नासि॑कवते॒ स्वाहा॑ ऽनासि॒काय॒ स्वाहा᳚ ऽक्ष॒ण्वते॒ स्वाहा॑ऽन॒क्षिका॑य॒ स्वाहा॑ क॒र्णिने॒ स्वाहा॑ ऽक॒र्णका॑य॒ स्वाहा॑ शीर्.ष॒ण्वते॒ स्वाहा॑ऽशी॒र्॒.षका॑य॒ स्वाहा॑ प॒द्वते॒ स्वाहा॑ ऽपा॒दका॑य॒ स्वाहा᳚ प्राण॒ते स्वाहा ऽप्रा॑णते॒ स्वाहा॒ वद॑ते॒ स्वाहा ऽव॑दते॒ स्वाहा॒ पश्य॑ते॒ स्वाहा ऽप॑श्यते॒ स्वाहा॑ शृण्व॒ते स्वाहा ऽशृ॑ण्वते॒ स्वाहा॑ मन॒स्विने॒ स्वाहा॑ - [ ]
पदपाठः (Word-by-word)
द॒त्वते᳚ । स्वाहा᳚ । अ॒द॒न्तका॑य । स्वाहा᳚ । प्रा॒णिने᳚ । स्वाहा᳚ । अ॒प्रा॒णाय॑ । स्वाहा᳚ । मुख॑वत॒ इति॒ मुख॑-व॒ते॒ । स्वाहा᳚ । अ॒मु॒खाय॑ । स्वाहा᳚ । नासि॑कवत॒ इति॒ नासि॑क - व॒ते॒ । स्वाहा᳚ । अ॒ना॒सि॒काय॑ । स्वाहा᳚ । अ॒क्ष॒ण्वत॒ इत्य॑क्षण्-वते᳚ । स्वाहा᳚ । अ॒न॒क्षिका॑य । स्वाहा᳚ । क॒र्णिने᳚ । स्वाहा᳚ । अ॒क॒र्णका॑य । स्वाहा᳚ । शी॒र्.॒ष॒ण्वत॒ इति॑ शीर्.षण् - वते᳚ । स्वाहा᳚ । अ॒शी॒र्॒.षका॑य । स्वाहा᳚ । प॒द्वत॒ इति॑ पत् - वते᳚ । स्वाहा᳚ । अ॒पा॒दका॑य । स्वाहा᳚ । प्रा॒ण॒त इति॑ प्र-अ॒न॒ते । स्वाहा᳚ । अप्रा॑णत॒ इत्यप्र॑ - अ॒न॒ते॒ । स्वाहा᳚ । वद॑ते । स्वाहा᳚ । अव॑दते । स्वाहा᳚ । पश्य॑ते । स्वाहा᳚ । अप॑श्यते । स्वाहा᳚ । शृ॒ण्व॒ते । स्वाहा᳚ । अशृ॑ण्वते । स्वाहा᳚ । म॒न॒स्विने᳚ । स्वाहा᳚ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरपि नक्तंहोमेष्वेव शरीरहोमाः - दत्वत इत्याद्याः ॥ प्रशंसादिषु मतुप् । नञा च तत्तदपेक्षा प्रतिषिध्यते । देवताभूतस्य दन्ताद्यपेक्षाभावात् । यद्वा - अदन्तकादिबहुप्रकारा । बहुरूपेणाश्वः स्तूयते । दत्वते । 'ह्रस्वनुड्भ्याम्' इति मतुप उदात्तत्वं अविभक्तेरपि दृश्यते । यथा 'अवसाय पद्वते रुद्र मृड' इति । अदन्तकाय । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । एवं सर्वत्र । नासिकवते । 'ङ्यापोः' इति ह्रस्वत्वम् । अक्षण्वते । 'छन्दस्यपि दृश्यते' इत्यनङि 'अनो नुट्' 'ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । शीर्षण्वते । 'शीर्षञ्छन्दसि' इति पूर्ववन्नुट्स्वरौ । पद्वते, दत्वत इतिवत् । प्राणते । 'शतुरनुमः' इति विभक्त्या उदात्तत्वम् । अप्राणते, अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
2 मनस्विने । 'अस्मायामेधा' इति विनिः । अमनसे । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । त्वचे 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । चर्मण्वते, उक्तौ नुट्स्वरौ । मांसन्वते । छान्दसोऽनङादेशः, स्वरः पूर्ववत् । अस्थन्वते 'छन्दस्यपि दृश्यते' इत्यनङ्, नुट्स्वरौ पूर्ववत् । एवं मज्जन्वते ॥
इति सप्तमे पञ्चमे द्वादशोनुवाकः ॥