अनुवाकः 2 TS 7.5.2

(A2)

(ति॒ष्ठा॒मेति॒ तासां॒ - तस्मा॒द् - द्वे च॑)

अनुवाकः 2 - Complete Audio

TS 7.5.2 - स्वरानुगामी

0:00 0:00
PS1.1 गावो॒ वा ए॒तथ् स॒त्रमा॑सताशृ॒ङ्गाः
PS1.2 स॒तीः शृङ्गा॑णि॒ सिषा॑सन्ती॒स्तासां॒ दश॒
PS1.3 मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒
PS1.4 ता अ॑ब्रुव॒न्नरा॒थ्स्मोत् ति॑ष्ठा॒माव॒ तं
PS1.5 काम॑मरुथ्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒
PS1.6 तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्द्धावा॒ याव॑ती॒र्वाऽऽसा॑महा
PS1.7 ए॒वेमौद्वा॑द॒शौ मासौ॑ संॅवथ्स॒रꣳ स॒पांद्योत्
PS1.8 ति॑ष्ठा॒मेति॒ तासां᳚ - [
PS1.9 ]
PS2.1 द्वाद॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त
PS2.2 श्र॒द्धया॒ वाऽश्र॑द्धया वा॒ ता
PS2.3 इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव
PS2.4 ता आ᳚र्द्ध्नुव॒न्॒. याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्॒.
PS2.5 याश्चोर्ज॑म॒वारु॑न्धत॒र्द्ध्नोति॑ द॒शसु॑ मा॒सू᳚त्तिष्ठ॑न्नृ॒द्ध्नोति॑ द्वाद॒शसु॒
PS2.6 य ए॒वं ॅवेद॑ प॒देन॒
PS2.7 खलु॒ वा ए॒ते य॑न्ति
PS2.8 वि॒न्दति॒ खलु॒ वै प॒देन॒
PS2.9 यन् तद्वा ए॒तदृ॒द्धमय॑नं॒ तस्मा॑
PS2.10 ( ) दे॒तद्-गो॒सनि॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.2.1 TS 7.5.2.1
गावो॒ वा ए॒तथ् स॒त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि॒ सिषा॑सन्ती॒स्तासां॒ दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता अ॑ब्रुव॒न्नरा॒थ्स्मोत् ति॑ष्ठा॒माव॒ तं काम॑मरुथ्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒ तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्द्धावा॒ याव॑ती॒र्वाऽऽसा॑महा ए॒वेमौद्वा॑द॒शौ मासौ॑ संॅवथ्स॒रꣳ स॒पांद्योत् ति॑ष्ठा॒मेति॒ तासां᳚ - [ ]
पदपाठः (Word-by-word)
गावः॑ । वै । ए॒तत् । स॒त्रम् । आ॒स॒त॒ । अ॒शृ॒ङ्गाः । स॒तीः । शृङ्गा॑णि । सिषा॑सन्तीः । तासा᳚म् । दश॑ । मासाः᳚ । निष॑ण्णा॒ इति॒ नि - स॒न्नाः॒ । आसन्न्॑ । अथ॑ । शृङ्गा॑णि । अ॒जा॒य॒न्त॒ । ताः । अ॒ब्रु॒व॒न्न् । अरा᳚थ्स्म । उदिति॑ । ति॒ष्ठा॒म॒ । अवेति॑ । तम् । काम᳚म् । अ॒रु॒थ्स्म॒हि॒ । येन॑ । कामे॑न । न्यष॑दा॒मेति॑ नि - अस॑दाम । इति॑ । तासा᳚म् । उ॒ । तु । वै । अ॒ब्रु॒व॒न्न् । अ॒द्‌र्धाः । वा॒ । याव॑तीः । वा॒ । आसा॑महै । ए॒व । इ॒मौ । द्वा॒द॒शौ । मासौ᳚ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । स॒पांद्येति॑ सं - पाद्य॑ । उदिति॑ । ति॒ष्ठा॒म॒ । इति॑ । तासा᳚म् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरपि गवामयनस्यैव विशेषं दर्शयति - गाव इत्यादि ॥ गतम् । सिषासन्तीः सिषासन्त्यः लब्धुमिच्छन्त्यः । सनोतेः 'जनसनखनाम्' इत्यात्वम्, 'सुपां सुलुक्' इति पूर्ववत् सवर्णदीर्घत्वम् । ता अब्रुवन्निति । दशमासव्यपगमे जातशृङ्गाः सर्वा गावोऽब्रुवन्; कथं? - आरात्स्म ऋद्धिं गता वयं, उत्तिष्ठामेदानीमभिमतं काममवारुत्स्महि लब्धवत्यो वयं शृङ्गजन्मात्मकं येन कामेन न्यषदाम आसिष्महे, नास्त्येवान्योस्माकं कामः, तत' उत्तिष्ठाम इति ॥
2 तासामु त्वा इत्यादि ॥ उ तु वै इति त्रयो निपाताः अवधारणविशेषप्रसिद्धिषु । तासामेव तु मध्ये अर्धा ऋद्धाः शृङ्गकामाः जातशृङ्गाः ताश्चाब्रुवन् । चार्थे वाशब्दः । ऋधेर्निष्ठायां छान्दसो गुणः । यावतीर्वा स्वयं भावानतिरेकिण्यः यावत्यश्च अन्याः शृङ्गकामाः किमेभिरुत्थितैरिति । अत एव जातगृङ्गाः ताश्चाब्रुवम् । कथमब्रुवन् । यद्वा - अर्धा एकादशा यावतीर्वा सर्वा आसामहा इत्यर्थः । आसामहा एव इमौ द्वादशौ मासौ नोत्तिष्ठाम इति इमावप्यासित्वा संपाद्योत्तिष्ठामेति । द्वादशानां पूरणौ द्वादशौ सत्सु हि द्वादशसु द्वादशापि द्वादशाः । अत्रेदं चिन्त्यम् - दशसु मासेषु या जातशृङ्गाः ता द्वादशौ मासो पुनः किमर्थमासतेति । अथ यास्त्वशृङ्गकामाः ता अस्मादेव दशमासानासीनाः पुनरपि द्वादशौ मासौ कस्मादेवासत इति । अयं भावः - जातशृङ्गा अपि शृङ्गश्रद्धया शृङ्गगुणान् कामयन्तेस्म प्रथमाः । उत्तरास्तु अन्यदेव किंचित् श्रेयः कामयन्तेस्म न शृङ्गेषु तासां श्रद्धेति । तदिदमुभयमपि स्वयमेव स्पष्टीकरोति - तासां द्वादश इत्यादि । अत्र या दशमासानासित्वा जातशृङ्गा उत्थिताः ता विरूपशृङ्गा आसन् । अथ या द्वादशावपि मासावासत तासां द्वादशे मासि समाप्ते संवत्सरे शृङ्गाणि प्रावर्तन्त प्रकृष्टरूपाण्यभवन् । अथ यासां श्रद्धा आसामहा एवेमौ द्वादशाविति तासां या श्रद्धा हेतुभूता शृङ्गविषया तया हेतुभूतयेत्यर्थः । अथ या अशृङ्गकामा द्वादशौ मासावासते ता इमा अभवन् यास्तूपरा उच्यन्ते । अत्र हेतुरश्रद्धयेति । शृङ्गश्रद्धया अभावात् तूपरा अभवन्निति । अत्रापि वाशब्दः समुच्चये श्रद्धया च अश्रद्धया चेत्यर्थः । तासामभवदिति । उपसंहरति - उभय्य इति । द्विप्रकारा अपि ता आर्ध्नुवन् ऋद्धिं गताः याश्च शृङ्गाण्यसन्वन् समभजन्त याश्चोर्जमलभन्तेति । ऋध्नोतीत्यादि । विदुषः फलम् । उभयनिमित्ताऽपि तस्य सिद्धिर्भवतीति । 'पद्दन्' इत्यादिना मासादेशे अन्त्यलोपश्छान्दसः ॥
3 ननु युक्तं द्वादशसु मासेषु ऋध्नुवन्तीति, संवत्सरस्याविकलमनुष्ठितत्वात् । कथं दशसु मासेषु ऋध्नुयुरित्याह - पदेनेत्यादि ॥ पदेन मार्गेण खल्वेते यन्ति वर्तन्ते । पदेन हि यन् गच्छन् सत्स्वपि स्खलितेषु विन्दति लभतेऽभिमतम् । किंच - तदेतत्खल्वयनं संवत्सरात्मकं ऋद्धं सर्वेणापि प्रकारेण ऋद्धिकृत् एवं दशमास्यप्येतद्विहितं भवति । तस्मादेतद्गोसनि गवामप्यविकल्पेनाभिमतस्य लम्भयितृ 'छन्दसि वनसन' इतीन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
इति सप्तमे पञ्चमे द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 7.5.2.2 TS 7.5.2.2
द्वाद॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाऽश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आ᳚र्द्ध्नुव॒न्॒. याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्॒. याश्चोर्ज॑म॒वारु॑न्धत॒र्द्ध्नोति॑ द॒शसु॑ मा॒सू᳚त्तिष्ठ॑न्नृ॒द्ध्नोति॑ द्वाद॒शसु॒ य ए॒वं ॅवेद॑ प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ यन् तद्वा ए॒तदृ॒द्धमय॑नं॒ तस्मा॑ ( ) दे॒तद्-गो॒सनि॑ ॥
पदपाठः (Word-by-word)
द्वा॒द॒शे । मा॒सि । शृङ्गा॑णि । प्रेति॑ । अ॒व॒र्त॒न्त॒ । श्र॒द्धयेति॑ श्रत्-धया᳚ । वा॒ । अश्र॑द्ध॒येत्यश्र॑त् - ध॒या॒ । वा॒ । ताः । इ॒माः । याः । तू॒प॒राः । उ॒भय्यः॑ । वाव । ताः । आ॒द्‌र्ध्नु॒व॒न्न् । याः । च॒ । शृङ्गा॑णि । अस॑न्वन्न् । याः । च॒ । ऊर्ज᳚म् । अ॒वारु॑न्ध॒तेत्य॑व - अरु॑न्धत । ऋ॒द्ध्नोति॑ । द॒शस्विति॑ द॒श - सु॒ । मा॒सु । उ॒त्तिष्ठ॒न्नित्यु॑त्-तिष्ठन्न्॑ । ऋ॒द्ध्नोति॑ । द्वा॒द॒शस्विति॑ द्वाद॒श - सु॒ । यः । ए॒वम् । वेद॑ । प॒देन॑ । खलु॑ । वै । ए॒ते । य॒न्ति॒ । वि॒न्दति॑ । खलु॑ । वै । प॒देन॑ । यन्न् । तत् । वै । ए॒तत् । ऋ॒द्धम् । अय॑नम् । तस्मा᳚त् ( ) । ए॒तत् । गो॒सनीति॑ गो - सनि॑ ॥
पदसंख्या: 52