अनुवाकः 4 TS 7.5.4

(A4)

(आ॒दि॒त्य - स्तस्यै॒व - द्वे च॑)

अनुवाकः 4 - Complete Audio

TS 7.5.4 - स्वरानुगामी

0:00 0:00
PS1.1 स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को
PS1.2 वा ऋचो॑ मनुष्यलो॒कादे॒व न
PS1.3 य॑न्त्य॒न्यद॑न्य॒थ् साम॑ भवति देवलो॒को
PS1.4 वै साम॑ देवलो॒कादे॒वान्यम॑न्यं मनुष्यलो॒कं
PS1.5 प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑
PS1.6 यन्ति॒ जग॑तीं॒ ॅवै छन्दाꣳ॑सि
PS1.7 प्र॒त्यव॑रोहन्त्या-ग्रय॒णं ग्रहा॑ बृ॒हत् पृ॒ष्ठानि॑
PS1.8 त्रयस्त्रिꣳ॒॒शꣳस्तोमा॒-स्तस्मा॒-ज्ज्यायाꣳ॑सं॒ कनी॑यान् प्र॒त्यव॑रोहति वैश्वकर्म॒णो
PS1.9 गृ॑ह्यते॒विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒
PS1.10 अव॑ रुन्धत आदि॒त्यो-[ ]
PS2.1 गृ॑ह्यत इ॒यं ॅवा अदि॑तिर॒स्यामे॒व
PS2.2 प्रति॑ तिष्ठन्त्य॒न्यो᳚ऽन्यो गृह्येते मिथुन॒त्वाय॒
PS2.3 प्रजा᳚त्या अवान्त॒रं ॅवै द॑शरा॒त्रेण॑
PS2.4 प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्-द॑शरा॒त्रो
PS2.5 भव॑ति प्र॒जा ए॒व तद्-यज॑मानाः
PS2.6 सृजन्त ए॒ताꣳ ह॒ वा
PS2.7 उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्रस्यर्द्धि॑मुवाच॒ यद्-द॑शरा॒त्रोयद्-द॑शरा॒त्रो
PS2.8 भव॑ति स॒त्रस्यर्द्ध्या॒ अथो॒ यदे॒व
PS2.9 पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वै
PS2.10 ( )-षा शान्तिः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.4.1 TS 7.5.4.1
स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न य॑न्त्य॒न्यद॑न्य॒थ् साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्यं मनुष्यलो॒कं प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑तीं॒ ॅवै छन्दाꣳ॑सि प्र॒त्यव॑रोहन्त्या-ग्रय॒णं ग्रहा॑ बृ॒हत् पृ॒ष्ठानि॑ त्रयस्त्रिꣳ॒॒शꣳस्तोमा॒-स्तस्मा॒-ज्ज्यायाꣳ॑सं॒ कनी॑यान् प्र॒त्यव॑रोहति वैश्वकर्म॒णो गृ॑ह्यते॒विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धत आदि॒त्यो-[ ]
पदपाठः (Word-by-word)
स॒मा॒न्यः॑ । ऋचः॑ । भ॒व॒न्ति॒ । म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒कः । वै । ऋचः॑ । म॒नु॒ष्य॒लो॒कादिति॑ मनुष्य - लो॒कात् । ए॒व । न । य॒न्ति॒ । अ॒न्यद॑न्य॒दित्य॒न्यत् - अ॒न्य॒त् । साम॑ । भ॒व॒ति॒ । दे॒व॒लो॒क इति॑ देव - लो॒कः । वै । साम॑ । दे॒व॒लो॒कादिति॑ देव - लो॒कात् । ए॒व । अ॒न्यम॑न्य॒मित्य॒न्यं - अ॒न्य॒म् । म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् । प्र॒त्य॒व॒रोह॑न्त॒ इति॑ प्रति - अ॒व॒रोह॑न्तः । य॒न्ति॒ । जग॑तीम् । अग्रे᳚ । उपेति॑ । य॒न्ति॒ । जग॑तीम् । वै । छन्दाꣳ॑सि । प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति । आ॒ग्र॒य॒णम् । ग्रहाः᳚ । बृ॒हत् । पृ॒ष्ठानि॑ । त्र॒य॒स्त्रिꣳ॒॒शमिति॑ त्रयः - त्रिꣳ॒॒शम् । स्तोमाः᳚ । तस्मा᳚त् । ज्यायाꣳ॑सम् । कनी॑यान् । प्र॒त्यव॑रोह॒तीति॑ प्रति - अव॑रोहति । वै॒श्व॒क॒र्म॒ण इति॑ वैश्व - क॒र्म॒णः । गृ॒ह्य॒ते॒ । विश्वा॑नि । ए॒व । तेन॑ । कर्मा॑णि । यज॑मानाः । अवेति॑ । रु॒न्ध॒ते॒ । आ॒दि॒त्यः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथोत्तरस्मिन् पक्षसि विशेष उच्यते - समान्य इत्यादि ॥ समान्यः एकाः । 'केवलमामक' इति ङीप्, 'उदात्तस्वरितयोः' इति विभक्तिस्स्वर्यते । ता एव ऋचो न पृथक् ग्राह्याः । उत्तरस्मिन् पक्षसि मनुष्यलोकादेव न यन्ति अपत्यादिसन्तानविच्छेदेन । अन्यदन्यदित्यादि । बहवो देवलोकाः, तत्र सामतः तस्मात् देवलोकात् इष्टं मनुष्यलोकं प्रत्यवरोहन्त एव यन्ति उप यन्ति सत्रम् ॥
2 जगतीमग्र इति ॥ विस्पष्टम् । अत ऊर्ध्वमुत्तरस्मिन् पक्षस्यह्नां परावृत्तत्वात् जगतीं वै छन्दांसि प्रत्यवरोहन्ति तदभिमुखं न्यग्भावेन गच्छन्ति । आग्रयणं ग्रहाः प्रत्यवरोहन्तीत्येव । आग्रयणाग्रत्वात् ग्रहाणाम् । बृहत् प्रत्यवरोहन्ति पृष्ठानि सामानि तत्प्रधानत्वात् । त्रयस्त्रिंशं प्रत्यवरोहन्ति स्तोमाः ततो न्यूनत्वात् । तस्मादित्यादि । गतम् । ज्यायांसं कनीयान् प्रत्यवरोहति ॥
3 वैश्वकर्मणोतिग्राह्यो गृह्यते आदित्यश्च । अन्योन्य इति । एकैकस्य गृह्यते आमहाव्रतात् महाव्रते सहगृह्येते ॥
4 अवान्तरं वा इत्यादि ॥ व्याख्यातं 'द्वे वाव' इत्यत्र द्वादशाहियो दशरात्रोपि विधीयते । समाप्तं गवामयनम् ॥
इति सप्तमे पञ्चमे चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 7.5.4.2 TS 7.5.4.2
गृ॑ह्यत इ॒यं ॅवा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठन्त्य॒न्यो᳚ऽन्यो गृह्येते मिथुन॒त्वाय॒ प्रजा᳚त्या अवान्त॒रं ॅवै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्-द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्-यज॑मानाः सृजन्त ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्रस्यर्द्धि॑मुवाच॒ यद्-द॑शरा॒त्रोयद्-द॑शरा॒त्रो भव॑ति स॒त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वै ( )-षा शान्तिः॑ ॥
पदपाठः (Word-by-word)
गृ॒ह्य॒ते॒ । इ॒यम् । वै । अदि॑तिः । अ॒स्याम् । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अ॒न्यो᳚न्य॒ इत्य॒न्यः - अ॒न्यः॒ । गृ॒ह्ये॒ते॒ इति॑ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । अ॒वा॒न्त॒रमित्य॑व - अ॒न्त॒रम् । वै । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । अ॒सृ॒ज॒त॒ । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । भव॑ति । प्र॒जा इति॑ प्र - जाः । ए॒व । तत् । यज॑मानाः । सृ॒ज॒न्ते॒ । ए॒ताम् । ह॒ । वै । उ॒द॒ङ्कः । शौ॒ल्बा॒य॒नः । स॒त्रस्य॑ । ऋद्धि᳚म् । उ॒वा॒च॒ । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । भव॑ति । स॒त्रस्य॑ । ऋद्ध्यै᳚ । अथो॒ इति॑ । यत् । ए॒व । पूर्वे॑षु । अह॒स्स्वित्यहः॑ - सु॒ । विलो॒मेति॒ वि - लो॒म॒ । क्रि॒यते᳚ । तस्य॑ । ए॒व ( ) । ए॒षा । शान्तिः॑ ॥
पदसंख्या: 52