अनुवाकः 15 TS 7.5.15

(A15)

(अशा᳚न्तः - सुषुवा॒णेनै - क॑चत्वारिꣳशच्च)

अनुवाकः 15 - Complete Audio

TS 7.5.15 - स्वरानुगामी

0:00 0:00
PS1.1 यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒
PS1.2 यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष
PS1.3 आ॑ति॒थ्यं ॅयद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒
PS1.4 यथ् संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॒ न
PS1.5 नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशा᳚न्त उपो॒त्थाय॑
PS1.6 प्र॒जां प॒शून् यज॑मानस्या॒भि म॑न्येत॒
PS1.7 यथ् संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति
PS1.8 भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नास्य॑ रु॒द्रोऽशा᳚न्त
PS1.9 - [ ]
PS2.1 उपो॒त्थाय॑ प्र॒जां प॒शून॒भि म॑न्यते॒
PS2.2 दश॑ ह॒वीꣳषि॑ भवन्ति॒ नव॒
PS2.3 वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी
PS2.4 प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशा᳚क्षरा
PS2.5 वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑
PS2.6 तिष्ठत्यृ॒तुभि॒र्वा ए॒ष छन्दो॑भिः॒ स्तोमैः᳚
PS2.7 पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैनं॒
PS2.8 छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चि॑नुते॒ दिशः॑
PS2.9 सुषुवा॒णेना॑ - [ ]
PS3.1 -भि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति
PS3.2 दि॒शाम॒भिजि॑त्या ए॒तया॒ वा इन्द्रं॑
PS3.3 दे॒वा अ॑याजय॒न् तस्मा॑दिन्द्रस॒व ए॒तया॒
PS3.4 मनुं॑ मनु॒ष्या᳚स्तस्मा᳚न्-मनुस॒वो यथेन्द्रो॑ दे॒वानां॒
PS3.5 ॅयथा॒ मनु॑र्मनु॒ष्या॑णामे॒वं भ॑वति॒ य
PS3.6 ए॒वं ॅवि॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीः
PS3.7 पुरोऽनुवा॒क्या॑ भवन्ति॒ सर्वा॑सां दि॒शाम॒भिजि॑त्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.15.1 TS 7.5.15.1
यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यं ॅयद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒ यथ् संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशा᳚न्त उपो॒त्थाय॑ प्र॒जां प॒शून् यज॑मानस्या॒भि म॑न्येत॒ यथ् संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नास्य॑ रु॒द्रोऽशा᳚न्त - [ ]
पदपाठः (Word-by-word)
यः । वै । अ॒ग्नौ । अ॒ग्निः । प्र॒ह्रि॒यत॒ इति॑ प्र - ह्रि॒यते᳚ । यः । च॒ । सोमः॑ । राजा᳚ । तयोः᳚ । ए॒षः । आ॒ति॒थ्यम् । यत् । अ॒ग्नी॒षो॒मीय॒ इत्य॑ग्नी - सो॒मीयः॑ । अथ॑ । ए॒षः । रु॒द्रः । यः । ची॒यते᳚ । यत् । सञ्चि॑त॒ इति॒ सं - चि॒ते॒ । अ॒ग्नौ । ए॒तानि॑ । ह॒वीꣳषि॑ । न । नि॒र्वपे॒दिति॑ निः - वपे᳚त् । ए॒षः । ए॒व । रु॒द्रः । अशा᳚न्तः । उ॒पो॒त्थायेत्यु॑प - उ॒त्थाय॑ । प्र॒जामिति॑ प्र - जाम् । प॒शून् । यज॑मानस्य । अ॒भीति॑ । म॒न्ये॒त॒ । यत् । सञ्चि॑त॒ इति॒ सं-चि॒ते॒ । अ॒ग्नौ । ए॒तानि॑ । ह॒वीꣳषि॑ । नि॒र्वप॒तीति॑ निः - वप॑ति । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । ए॒व । ए॒न॒म् । श॒म॒य॒ति॒ । न । अ॒स्य॒ । रु॒द्रः । अशा᳚न्तः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथैषां ब्राह्मणं - यो वा इत्यादि ॥ योऽयमग्नावग्निं मथित्वा प्रणीयते यश्च सोमो राजा तयोरेष आतिथ्यं योऽग्नीषोमीयपशुः । अथैष इत्यादि । एतानि हवींषि 'अग्नये गायत्राय' इत्यादीनि । अशान्तः क्रुद्धः अभिमन्येत नाशयेत् ॥
2 दश हवींषीत्यादि ॥ गतम् ॥
3 ऋतुभिर्वा इत्यादि ॥ एषां हविषां निर्वापेन ऋत्वादिभिः एष चितो भवतीति । दिश इत्यादि । सुषुवाणेन सोमं सुतवता, ऐश्वर्यप्राप्तेन वा । अभिजित्या इत्यादि । अभिजेतव्याः । छान्दसः क्यप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । अभिजित्यै, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
4 एतया वा इत्यादि ॥ गतम् । मनुष्याः अयाजयन्नित्येव । दिग्वतीः दिक्शब्दवत्यः 'समिद्दिशामाशया नः' इत्याद्याः ॥
इति सप्तमे पञ्चमे पञ्चदशोनुवाकः ॥
पञ्चशत् 2 #
TS 7.5.15.2 TS 7.5.15.2
उपो॒त्थाय॑ प्र॒जां प॒शून॒भि म॑न्यते॒ दश॑ ह॒वीꣳषि॑ भवन्ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्यृ॒तुभि॒र्वा ए॒ष छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैनं॒ छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चि॑नुते॒ दिशः॑ सुषुवा॒णेना॑ - [ ]
पदपाठः (Word-by-word)
उ॒पो॒त्थायेत्यु॑प - उ॒त्थाय॑ । प्र॒जामिति॑ प्र-जाम् । प॒शून् । अ॒भीति॑ । म॒न्य॒ते॒ । दश॑ । ह॒वीꣳषि॑ । भ॒व॒न्ति॒ । नव॑ । वै । पुरु॑षे । प्रा॒णा इति॑ प्र - अ॒नाः । नाभिः॑ । द॒श॒मी । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । यज॑माने । द॒धा॒ति॒ । अथो॒ इति॑ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजीति॑ वि - राजि॑ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । प्रतीति॑ । ति॒ष्ठ॒ति॒ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । वै । ए॒षः । छन्दो॑भि॒रिति॒ छन्दः॑- भिः॒ । स्तोमैः᳚ । पृ॒ष्ठैः । चे॒त॒व्यः॑ । इति॑ । आ॒हुः॒ । यत् । ए॒तानि॑ । ह॒वीꣳषि॑ । नि॒र्वप॒तीति॑ निः - वप॑ति । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । स्तोमैः᳚ । पृ॒ष्ठैः । चि॒नु॒ते॒ । दिशः॑ । सु॒षु॒वा॒णेन॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.5.15.3 TS 7.5.15.3
-भि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्या ए॒तया॒ वा इन्द्रं॑ दे॒वा अ॑याजय॒न् तस्मा॑दिन्द्रस॒व ए॒तया॒ मनुं॑ मनु॒ष्या᳚स्तस्मा᳚न्-मनुस॒वो यथेन्द्रो॑ दे॒वानां॒ ॅयथा॒ मनु॑र्मनु॒ष्या॑णामे॒वं भ॑वति॒ य ए॒वं ॅवि॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीः पुरोऽनुवा॒क्या॑ भवन्ति॒ सर्वा॑सां दि॒शाम॒भिजि॑त्यै ॥
पदपाठः (Word-by-word)
अ॒भि॒जित्या॒ इत्य॑भि - जित्याः᳚ । इति॑ । आ॒हुः॒ । यत् । ए॒तानि॑ । ह॒वीꣳषि॑ । नि॒र्वप॒तीति॑ निः - वप॑ति । दि॒शाम् । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । ए॒तया᳚ । वै । इन्द्र᳚म् । दे॒वाः । अ॒या॒ज॒य॒न्न् । तस्मा᳚त् । इ॒न्द्र॒स॒व इती᳚न्द्र - स॒वः । ए॒तया᳚ । मनु᳚म् । म॒नु॒ष्याः᳚ । तस्मा᳚त् । म॒नु॒स॒व इति॑ मनु - स॒वः । यथा᳚ । इन्द्रः॑ । दे॒वाना᳚म् । यथा᳚ । मनुः॑ । म॒नु॒ष्या॑णाम् । ए॒वम् । भ॒व॒ति॒ । यः । ए॒वम् । वि॒द्वान् । ए॒तया᳚ । इष्ट्या᳚ । यज॑ते । दिग्व॑ती॒रिति॒ दिक्-व॒तीः॒ । पु॒रो॒ऽनु॒वा॒क्या॑ इति॑ पुरः-अ॒नु॒वा॒क्याः᳚ । भ॒व॒न्ति॒ । सर्वा॑साम् । दि॒शाम् । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ॥
पदसंख्या: 40