पञ्चशत् 1 #
गावो॒ वा ए॒तथ् स॒त्र-मा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न॒ तासां॒ दश॒मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता उद॑तिष्ठ॒न्नरा॒थ्स्मेत्यथ॒ यासां॒ नाजा॑यन्त॒ ताः सं॑ॅवथ्स॒र-मा॒प्त्वोद॑तिष्ठ॒ -न्नरा॒थ्स्मेति॒ यासां॒ चाजा॑यन्त॒ यासां᳚ च॒ न ता उ॒भयी॒रु-द॑तिष्ठ॒-न्नरा॒थ्स्मेति॑ गोस॒त्रं ॅवै - [ ]
पदपाठः (Word-by-word)
गावः॑ । वै । ए॒तत् । स॒त्रम् । आ॒स॒त॒ । अ॒शृ॒ङ्गाः । स॒तीः । शृङ्गा॑णि । नः॒ । जा॒य॒न्तै॒ । इति॑ । कामे॑न । तासा᳚म् । दश॑ । मासाः᳚ । निष॑ण्णा॒ इति॒ नि - स॒न्नाः॒ । आसन्न्॑ । अथ॑ । शृङ्गा॑णि । अ॒जा॒य॒न्त॒ । ताः । उदिति॑ । अ॒ति॒ष्ठ॒न्न् । अरा᳚थ्स्म । इति॑ । अथ॑ । यासा᳚म् । न । अजा॑यन्त । ताः । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । आ॒प्त्वा । उदिति॑ । अ॒ति॒ष्ठ॒न्न् । अरा᳚थ्स्म । इति॑ । यासा᳚म् । च॒ । अजा॑यन्त । यासा᳚म् । च॒ । न । ताः । उ॒भयीः᳚ । उदिति॑ । अ॒ति॒ष्ठ॒न्न् । अरा᳚थ्स्म । इति॑ । गो॒स॒त्रमिति॑ गो - स॒त्रम् । वै ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
सप्तमं काण्डम्
पञ्चमः प्रपाठकः
1 अथ प्रकृतं गवामयनमेवाधिकृत्याह - गाव इत्यादि ॥ अशृङ्गास्सत्यो गावः शृङ्गाणि अस्माकं जायन्तामिति अनेन कामेन एतत्सत्रमासत । जनेर्लेटि 'वैतोन्यत्र' इत्यैकारः । तासां सत्रमासीनानां दश मासा गिषण्णाः निर्गता आसन् । अथानन्तरं दशमासापगमे शृङ्गाण्यजायन्त प्रादुर्भूतानि । ता जातशृङ्गा उदतिष्ठन् सत्रादुत्थिताः अरात्स्म ऋद्धाः कृतकार्या वयमिति । अथ दशसु मासेष्वजातशृङ्गाः संवत्सरमाप्त्वा प्राप्य संवत्सरान्ते उदतिष्ठन् अरात्स्मेति अजातशृङ्गास्स्मोऽधुना वयमिति । तत्र संवत्सरान्ते यासां शृङ्गाण्यजारान्त यासां च नाजायन्तेत्येव ता उभयीः उभय्यः जातशृङ्गाश्च वत्सरान्तेऽप्यजातशृङ्गास्तूपराश्च द्विप्रकारा अपि गाव उदतिष्ठन् अरात्स्म वयं सत्रं च संस्थितमिति । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । ननु तृपराणां का सत्रात् वृद्धिरित्यत आह - गोसत्रं वा इत्यादि । गतम् ॥
2 का तर्हि सा तूपराणां वृद्धिरित्याह - तस्मात्तूपरेत्यादि ॥ सामान्यविवक्षया एकवचनम् । वार्षिकौ मासौ पर्त्वा प्रीत्वा प्रीता भूत्वा चरति तपूरा इयमेव तस्या वृद्धिः । पृ प्रीतौ । वर्षशब्दात् 'छन्दसि ठञ्' इति ठञ्, 'अत्यन्तसंयोगे च' इति द्वितीया । सत्रेणाभिजितं सत्राभिजितम् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
3 तस्मादित्याहि ॥ संवत्सरसदः संवत्सरसत्रिणो गृहे क्रियते यत्किंचिदपि प्रशस्तं क्रियते तदाप्तं पर्याप्तमवरुद्धं काले लब्धं अभिजितं न्यायोपात्तमेव क्रियते । तदस्यैव फलं न निर्मूलमिति यावत् । उभयत्रापि 'गतिरनन्तरः' इति गतेः पकृतिस्वरत्वम् ॥
4 अथ प्रायणीयोदयनीयावतिरात्रावस्य विधातुमाह - समुद्रं वा इत्यादि ॥ एते हि समुद्रं प्रप्लवन्ते आप्लवेन प्रतरन्ति ये संवत्सरसत्रमुपयन्ति । यश्च समुद्रे तरन् तस्य पारं न पश्यति स खलु ततो नोदेति नोत्तरति । संवत्सरसत्रं च दुस्तरत्वात् समुद्रस्थानीयम् । तस्य चैतौ पारस्थानीयौ अतिरात्रौ । तस्माद्य एवं विद्वांस उभयतोतिरात्रं संवत्सरसत्रमुपयन्ति ते अनार्ता ऐव दृष्टपारत्वादक्लेशा एव उदृचं सत्रसमाप्तिं गच्छन्तीति । अतिरात्रयोर्विधिः । ऋचेरुत्पूर्वात्संपदादिलक्षणः क्विप् ॥
5 अथातिरात्रयोस्स्तुतिः - इयं वा इत्यादि ॥ इयं पृथिवी पूर्वः प्रायणीयोतिरात्रः । असौ द्यौरुत्तर उदयनीयोतिरात्रः । मनः पूर्व हति । पूर्वोत्तरत्वसाम्यात् । प्राणः पूर्व इति । प्रथमचरमसाम्यात् । प्ररोधनं परिग्रहः । उदयनमुत्थानम् ॥
6 ज्योतिष्टोम इत्यादि ॥ यतम् । प्रायणीयस्येदं लक्षणम् ॥
7 चतुर्विंश इत्यादि ॥ प्रायणीयानन्तरमारम्भणीयश्चतुर्विंश उक्थ्यः कार्य इत्यर्थः । प्रयन्त एवेति । प्रयन्त एव आरभमाणा एव संवत्सरे प्रतितिष्ठन्ति समस्तसंवत्सरोत्रैव समापितो भवति । तस्येत्यादि । उक्थ्यस्य पञ्चदश स्तोत्राणि तानि च सर्वाणि चतुर्विंशानि । पञ्चदशानां चतुर्विंशतेश्च संवर्गः षष्ट्यधिकं शतत्रयम् । तावत्यः संवत्सरस्य रात्रय इति । उभे एवेति । चतुर्विंशत्वेन अर्धमासानामाभिरूप्यं स्तोत्रियाभिरह्नामाभिरूप्यमित्यादि । प्रारम्भ एव प्राप्तस्य संवत्सरस्य समाप्त्यर्थमविनाशार्थं च उत्तरैरहोभिश्चरन्ति प्रारब्धस्य समाप्तिरेतावता भवतीति । यद्वा - संस्थित्यै संस्थित्याः संस्थाया अत्रैव लब्धाया अविनाशार्थमुत्तरैरहोभिः चरन्ति । षष्ठ्यर्थे चतुर्थी ॥
8 षडहा इति ॥ चत्वारोभिप्लवा इत्युक्तम् । स्तुत्यर्थं पुनर्वचनम् । गौश्चायुश्चेति । तेषु षडहेषु ज्योतिषां मध्ये गोआयुषी उक्थ्यो भवतः स्तोमविशेषवन्तौ स्तोमौ । उक्थ्यस्यैव पुनर्वचनं स्तुत्यर्थम्। । संवत्सरस्यैवेत्यादि । संवत्सरस्यैव मध्ये पुनःपुनः प्रवेशितं तत् मिथुनं प्रजननाय प्रजानां भवति । ज्योतिरभित इति । आदौ अन्ते च षडहस्य । विमोचनमेव तदिति । ज्योतिर्नाम विमोचनमिति । तेन छन्दांसि विमोकं ततो विमुच्य विस्रस्य यन्ति गच्छन्ति सत्रिणः । अथो इत्यादि । उभयतोज्योतिष्ट्वेनातिप्रकाशत्वात् स्वर्गं प्राप्नुवन्ति ॥
9 ब्रह्मवादिन इत्यादि ॥ आसते अमी सत्रिणः तेऽमी केन पथा यन्तीति ब्रह्मवादिनः पर्यनुयोगं वदन्ति । तत्र देवयानेन पथा यन्ति आसीना एव गच्छन्तीत्युत्तरं ब्रूयात् तेषाम् । देवा येन यन्ति स देवयानः पन्थाः देवयोग्यो मार्गः । छन्दासीत्यादि । गतम् । ज्योतिर्वा इत्यादि । त्रीण्येवैतान्यहानि आवृत्त्या संवत्सरं प्रीणयन्ति । एतानि च गायत्र्याद्यात्मकानि । गायत्र्यादयश्च देवानां पन्था इति - आसीना एवामी अनेन पथा स्वर्गं यन्तीति ॥
10 समानमित्यादि ॥ एकमेव साम भवति रथन्तरं वा बृहद्वा सर्वेष्वहस्सु । तस्यैकत्वात्तदात्मनो देवलोकान्न यन्ति न गच्छन्ति कदाचिदपि न वियुज्यन्ते । अन्याअन्या इत्यादि । साम्नो योनिभूता ऋचोन्याअन्या भवन्ति ऋचः प्रत्यहं भिद्यन्ते । तासां च भेदात्तदात्मकात् मनुष्यलोकादन्यस्माच्च देवलोकमेवाभिमुख्येन आरोहन्तो यन्ति गच्छन्ति । व्यत्ययेन पञ्चम्यर्थे द्वितीया । यद्वा - मनुःष्यलोकान्नानासुकृतसाधनमनुष्यलोकवशात्तदनुरूपमन्यमन्यं देवलोकमेव प्राप्नुवन्ति न कदाचिद्देवलोकेन वियुज्यन्त इति ॥
11 उक्तं समानं साम भवतीति; किं पुनस्तत्सामेत्याह - अभिवर्त इति ॥ अभिवर्ताख्यं ब्रह्मण एव साम भवति भिन्नान्येवान्यानि सामानि । कश्चिदाह - अभिवर्तत्वं ब्रह्मसाम्नोऽनेन विधीयते । सर्वत्रैव साम्र ऐक्यमिति । अभिवृत्त्या इति । सुवर्गस्य आभिमुख्येन प्राप्त्यर्थम् ॥
12 अभिजिदित्यादि ॥ अभिजिद्विश्वजितोर्विधिः । पूर्वस्मिन्पक्षे परस्सम्नामधस्तात् अभिजिदुत्तरस्मिन्पक्षे स्वरसाम्नामुपरिष्टाद्विश्वजित् । मासिमासि पृष्ठानीति । न कश्चिदपि मासः पृष्ठशून्यः कार्यः । मासिमास्यतिग्राह्या इति । आग्नेयैन्द्रसौर्याः । अत्र नियमार्थं वचनम् । उपरिष्टादिति । क्वचित् चतुर्विंशादह्नः पराणि क्वचिदष्टादशात् । तस्मादित्यादि । गतम् ॥
इति सप्तमे पञ्चमे प्रथमोनुवाकः ॥