पञ्चशत् 1 #
दे॒वानां॒ ॅवा अन्तं॑ ज॒ग्मुषा॑मिन्द्रि॒यं ॅवी॒र्य॑-मपा᳚क्राम॒त् तत् क्रो॒शेनावा॑रुन्धत॒ तत् क्रो॒शस्य॑ क्रोश॒त्वं ॅयत् क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते᳚ स्तु॒वन्ति॑ य॒ज्ञ्स्यै॒वान्तं॑ ग॒त्वेन्द्रि॒यं ॅवी॒र्य॑मव॑ रुन्धते स॒त्रस्यर्द्ध्या॑ ऽऽहव॒नीय॒स्यान्ते᳚ स्तुवन्त्य॒ग्नि-मे॒वोप॑द्-र॒ष्टारं॑ कृ॒त्वर्द्धि॒मुप॑ यन्ति प्र॒जाप॑ते॒र्॒.हृद॑येन हवि॒र्द्धाने॒ऽन्तः स्तु॑वन्ति प्रे॒माण॑मे॒वास्य॑ गच्छन्ति श्लो॒केन॑ पु॒रस्ता॒थ् सद॑सः - [ ]
पदपाठः (Word-by-word)
दे॒वाना᳚म् । वै । अन्त᳚म् । ज॒ग्मुषा᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अपेति॑ । अ॒क्रा॒म॒त् । तत् । क्रो॒शेन॑ । अवेति॑ । अ॒रु॒न्ध॒त॒ । तत् । क्रो॒शस्य॑ । क्रो॒श॒त्वमिति॑ क्रोश - त्वम् । यत् । क्रो॒शेन॑ । चात्वा॑लस्य । अन्ते᳚ । स्तु॒वन्ति॑ । य॒ज्ञ्स्य॑ । ए॒व । अन्त᳚म् । ग॒त्वा । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । स॒त्रस्यद्र्ध्या᳚ । आ॒ह॒व॒नीय॒स्येत्या᳚ - ह॒व॒नीय॑स्य । अन्ते᳚ । स्तु॒व॒न्ति॒ । अ॒ग्निम् । ए॒व । उ॒प॒द्र॒ष्टार॒मित्यू॑प - द्र॒ष्टार᳚म् । कृ॒त्वा । ऋद्धि᳚म् । उपेति॑ । य॒न्ति॒ । प॒जाप॑त॒र्॒.हृद॑येन । ह॒वि॒द्र्धान॒ इति॑ हविः - धाने᳚ । अ॒न्तः । स्तु॒व॒न्ति॒ । प्रे॒माण᳚म् । ए॒व । अ॒स्य॒ । ग॒च्छ॒न्ति॒ । श्लो॒केन॑ । पु॒रस्ता᳚त् । सद॑सः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इत्थं विकृतयः काश्चिद्विहिताः । अधुना प्रकृतावेव यदुपान्त्यं महाव्रतं नाम तद्गतान् कांश्चिद्विशेषान् विधातुमाह - देवानामित्यादि ॥ देवानामन्तं संवत्सरसत्रस्य समाप्तिं जग्मुषां गतवतां इन्द्रियं वीर्यं च अपागच्छत् । तत् क्रोशनाम्ना साम्ना अवारुन्धत । तत्क्रोशस्य साम्नः क्रोशत्वम् । कुश आह्वाने, रोदने च । उञ्छादिर्द्रष्टव्यः यदित्यादि । गतम् । अन्ते समीपे ॥
2 सत्रस्यर्ध्येति ॥ इयमपि समाख्या पदद्वयात्मिका; यथा अहिर्बुध्नियेति पदद्वयमिति एकस्य देवस्याख्यात्री । 'गोपोषं पुष्णाति' इतिवत् प्रत्येकं वाचकत्वेऽपि समुदिताभ्यामेव देवस्याभिधानमिति । उभयत्र अनवधारणात् अनवग्रहः । अत्र त्ववयवयोः आनर्थक्यात् न पदकार्यं क्रियते । शशविषाणादिवत् विभक्त्युत्पत्तिः । सत्रस्य समृद्धिहेतुत्वं तु विद्यमानमाख्याप्राधान्यात् विवक्ष्यते । अग्निमित्यादि । अग्निमेव उपद्रष्टारं साक्षिणं कृत्वा
सत्रस्य ऋद्धिमुपयन्ति ॥
3 प्रजापतेर्हदयेनेति ॥ इयमपि पूर्ववत् समाख्या पदद्वयात्मिका प्रजापतेहृदयवत् विद्यमानोऽप्यर्थो न विवक्ष्यते । अनेन साम्ना हविर्धानेऽन्तः हविर्धानस्य मध्ये स्तुवन्ति । प्रमाणं प्रियत्वमस्य प्रजापतेर्गच्छन्ति । प्रियस्थिरादिना प्रादेशः । श्लोकानुश्लोकशब्दावपि समाख्ये । ताभ्यां सदसः पुरस्तात्पश्चाच्च स्तुवन्ति । श्लोकभाजः कीर्तिभाजः ॥
4 नवभिस्स्तोत्रियाभिः उद्गायति अध्वर्युः । तस्मादित्यादि । तस्मात् शीर्ष्णोऽन्यानि सर्वाण्यङ्गानि पुरुषः प्रत्यचति प्रत्याकर्षति संकोचयति । प्रभावरहितत्वात् सङ्कोचः । त्रिवृच्छिरो भवति शिर एव केवलं न प्रत्यचति तस्य त्रिवृत्त्वात् पञ्चदशकं रथन्तरंसाम भवति एकः पक्षः । सप्तदशं बृहत्सामकमेकपक्षः । एकविंशं भद्रसामकं द्विपदासु ऋक्षु पञ्चभिः स्तोत्रियाभिः पच्छः पत्नय उपगायन्ति भद्रं साम । गतमन्यत् ॥
5 प्रजापतिरित्यादि ॥ गतम् । आसां राज्यं राजभावं अहं परीयां परिगच्छेयमिति पुरोहितादित्वाद्राजशब्दाद्यत् । ततो राजनेनैव साम्रा राज्यं पर्यैत् तद्राजनस्य राजनत्वम् । राजत्यनेनेति राजनम् । यदित्यादि । गतम् ॥
6 पञ्चविंशमित्यादि ॥ तद्राजनं पञ्चविंशं भवति आत्मा प्रजापतेः पञ्चविंशस्याप्त्यै भवति । पञ्चभिः स्तोत्रियाभिः तिष्ठन्तः स्तुवन्ति । पञ्चभिरासीनास्स्तुवन्तीत्येव । पञ्चकाभ्यामुभयोर्लोकयोरभिजयः । दशेत्यादि । गतम् ॥
7 नवभिरध्वर्युरुद्गायतीत्युक्तम् ॥ पञ्चधा पञ्चस्तोत्रिया विनिषद्य पृथक्पृथगासीना दिक्षु स्तुवन्ति एकैकयाऽस्तुतया समायन्ति सङ्गच्छन्ति उद्गातारम् । ताभिश्चतसृभिरुद्गातोद्गायति । तस्मादित्यादि । गतम् ॥
8 अथो अपि च यथा सुपर्ण उत्पतिष्यन् उत्पतितुमारभमाणः शिर उत्तमं उद्गततमं कुरुते एवमेव यजमाना आत्मनि तेजो दधानाः प्राजानामुत्तमा भवन्ति । उत्तमशब्द उञ्छादिरन्तोदात्तः ॥
9 आसन्दीमारोहत्युद्गाता । साम्राज्यं गच्छन्ति सर्वे । एवं सर्वेषां फलं सर्वत्र । प्लेङ्खं डोलां होताऽऽरोहतीत्येव । ब्रध्नस्यादित्यस्य विष्टपं लोकम् ॥
10 एतावन्त इत्यादि ॥ अथो अपि च आक्रमणसाधनं सेतुं यजमानाः कुर्वते । स्वर्गस्य समुद्रस्य समष्ट्यै सम्यगवाप्तये तद्भवति । 'तादौ च' इति गतेः प्रकतिस्वरत्वम् ॥
इति सप्तमे पञ्चमे अष्टमोनुवाकः ॥