अनुवाकः 22 TS 7.5.22

(A22)

(अ॒ग्नयेऽꣳ॑हो॒मुचे᳚ - त्रिꣳ॒॒शत्)

अनुवाकः 22 - Complete Audio

TS 7.5.22 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्नये-ऽꣳ॑हो॒मुचे॒-ऽष्टाक॑पाल॒ इन्द्रा॑याऽꣳहो॒मुच॒ एका॑दशकपालो मि॒त्रावरु॑णाभ्या-मागो॒मुग्भ्यां᳚
PS1.2 पय॒स्या॑ वायोसावि॒त्र आ॑गो॒मुग्भ्यां᳚ च॒रुर॒श्विभ्या॑-मागो॒मुग्भ्यां᳚
PS1.3 धा॒ना म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालो॒
PS1.4 विश्वे᳚भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लो
PS1.5 ऽनु॑मत्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो॒
PS1.6 द्यावा॑पृथि॒वीभ्या॑-मꣳहो॒मुग्भ्यां᳚ द्विकपा॒लः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.5.22.1 TS 7.5.22.1
अ॒ग्नये-ऽꣳ॑हो॒मुचे॒-ऽष्टाक॑पाल॒ इन्द्रा॑याऽꣳहो॒मुच॒ एका॑दशकपालो मि॒त्रावरु॑णाभ्या-मागो॒मुग्भ्यां᳚ पय॒स्या॑ वायोसावि॒त्र आ॑गो॒मुग्भ्यां᳚ च॒रुर॒श्विभ्या॑-मागो॒मुग्भ्यां᳚ धा॒ना म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालो॒ विश्वे᳚भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लो ऽनु॑मत्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या॑-मꣳहो॒मुग्भ्यां᳚ द्विकपा॒लः ॥
पदपाठः (Word-by-word)
अ॒ग्नये᳚ । अꣳ॒॒हो॒मुच॒ इत्यꣳ॑हः-मुचे᳚ । अष्टाक॑पाल॒ इत्य॒ष्टा-क॒पा॒लः॒ । इन्द्रा॑य । अꣳ॒॒हो॒मुच॒ इत्यꣳ॑हः - मुचे᳚ । एका॑दशकपाल॒ इत्येका॑दश - क॒पा॒लः॒ । मि॒त्रावरु॑णाभ्या॒मिति॑ मि॒त्रा - वरु॑णाभ्याम् । आ॒गो॒मुग्भ्या॒मित्या॑गो॒मुक् - भ्या॒म् । प॒य॒स्या᳚ । वा॒यो॒सा॒वि॒त्र इति॑ वायो - सा॒वि॒त्रः । आ॒गो॒मुग्भ्या॒मित्या॑गो॒मुक् - भ्या॒म् । च॒रुः । अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् । अ॒गो॒मुग्भ्या॒मित्या॑गो॒मुक् - भ्या॒म् । धा॒नाः । म॒रुद्भ्य॒ इति॑ म॒रुत् - भ्यः॒ । ए॒नो॒मुग्भ्य॒ इत्ये॑नो॒मुक्-भ्यः॒ । स॒प्तक॑पाल॒ इति॑ स॒प्त - क॒पा॒लः॒ । विश्वे᳚भ्यः । दे॒वेभ्यः॑ । ए॒नो॒मुग्भ्य॒ इत्ये॑नो॒मुक् - भ्यः॒ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । अनु॑मत्या॒ इत्यनु॑ - म॒त्यै॒ । च॒रुः । अ॒ग्नये᳚ । वै॒श्वा॒न॒राय॑ । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । अꣳ॒॒हो॒मुग्भ्या॒मित्यꣳ॑हो॒मुक् - भ्या॒म् । द्वि॒क॒पा॒ल इति॑ द्वि - क॒पा॒लः ॥
पदसंख्या: 30
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

(SB) 1यदुक्तं सूत्रकारेण 'अग्नयेंहोमुचेऽष्टाकपाल इति दशहविषं मृगारेष्टिमनु निर्वपति' इति तदेतद्विधत्ते - अंहसो मोचयतीति अंहोमुक् । आगसो मेचयत इति आगोमुचौ वायुश्च सविता च वायोसावित्रः वायुसवितृभ्यामित्यर्थः । धानाः भ्रष्टयवाः । एनसो मोचयन्तीति एनोमुचः ॥

इति माधवीये सप्तमे पञ्चमे द्वाविंशोनुवाकः ॥