पञ्चशत् 1 #
ष॒ड॒हैर्मासा᳚न्थ् स॒पांद्याह॒रुथ् सृ॑जन्ति षड॒हैर्.हि मासा᳚न्थ् स॒पंश्य॑न्त्य-र्द्धमा॒सैर्मासा᳚न्थ् स॒पांद्याह॒रुथ् सृ॑जन्त्य-र्द्धमा॒सैर्.हि मासा᳚न्थ् स॒पंश्य॑न्त्यमावा॒स्य॑या॒ मासा᳚न्थ् स॒पांद्याह॒रुथ् सृ॑जन्त्यमावा॒स्य॑या॒ हि मासा᳚न्थ् स॒पंश्य॑न्ति पौर्णमा॒स्या मासा᳚न्थ् स॒पांद्याऽहरुथ् सृ॑जन्ति पौर्णमा॒स्या हि मासा᳚न्थ् स॒पंश्य॑न्ति॒ यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒ यः पू॒र्णादु॒दच॑ति - [ ]
पदपाठः (Word-by-word)
ष॒ड॒हैरिति॑ षट् - अ॒हैः । मासान्॑ । स॒पांद्येति॑ सं - पाद्य॑ । अहः॑ । उदिति॑ । सृ॒ज॒न्ति॒ । ष॒ड॒हैरिति॑ षट् - अ॒हैः । हि । मासान्॑ । स॒पंश्य॒न्तीति॑ सं - पश्य॑न्ति । अ॒द्र्ध॒मा॒सैरित्य॑द्र्ध - मा॒सैः । मासान्॑ । स॒पांद्येति॑ सं - पाद्य॑ । अहः॑ । उदिति॑ । सृ॒ज॒न्ति॒ । अ॒द्र्ध॒मा॒सैरित्य॑द्र्ध - मा॒सैः । हि । मासान्॑ । स॒पंश्य॒न्तीति॑ सं - पश्य॑न्ति । अ॒मा॒वा॒स्य॑येत्य॑मा - वा॒स्य॑या । मासान्॑ । स॒पांद्येति॑ सं - पाद्य॑ । अहः॑ । उदिति॑ । सृ॒ज॒न्ति॒ । अ॒मा॒वा॒स्य॑येत्य॑मा - वा॒स्य॑या । हि । मासान्॑ । स॒पंश्य॒न्तीति॑ सं-पश्य॑न्ति । पौ॒र्ण॒मा॒स्येति॑ पौर्ण-मा॒स्या । मासान्॑ । स॒पांद्येति॑ सं - पाद्य॑ । अहः॑ । उदिति॑ । सृ॒ज॒न्ति॒ । पौ॒र्ण॒मा॒स्येति॑ पौर्ण - मा॒स्या । हि । मासान्॑ । स॒पंश्य॒न्तीति॑ सं - पश्य॑न्ति । यः । वै । पू॒र्णे । आ॒सि॒ञ्चतीत्या᳚ - सि॒ञ्चति॑ ।परेति॑ । सः । सि॒ञ्च॒ति॒ । यः । पू॒र्णात् । उ॒दच॒तीत्यु॑त् - अच॑ति ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथोत्सर्गिणामयनं प्रस्तूयते - इदं च गवामयनस्य गुणविकारः । अत्र विशेष उच्यते - षडहैरिति ॥ मासः सावनः त्रिंशदुष्णकरोदयं सावनं मासमाहुः । उक्ताषडहाः पृष्ठ्याभिप्लवात्मकाः । तैर्मासान् संपाद्य पूरयित्वा अनन्तरस्य मासस्य आद्यमहर्ज्योतिराख्यं उत्सृजन्ति त्यजन्ति । अत्र षडहा एव गण्यन्ते न दिवसाः । षडहैरहः पञ्चभिः मासान् सपश्यन्ति गणयित्वा जानन्ति पञ्चानां षण्णां च षडाहानां संवर्गस्त्रिंशदिति । अर्धमासैरिति । द्वाभ्यामर्धमासाभ्यां पञ्चदशकाभ्यां (पञ्चम एकाभ्या) एकमासं संपादयति । समप्रविभागे अर्धशब्दः । 'अर्ध नपुंसकम्' इति समासः । अर्धमासैर्हि मासान् संपश्यन्ति द्वाभ्यां द्वाम्यामर्धमासाभ्यां एकैको मास गति गणयित्वा मासान् जानन्ति जनयन्ति । अत्रार्धमासावेव गण्येते, न दिवसाः अमावास्ययेति । अमावास्यामारभ्य मासस्सपाद्यः । अत्रामावास्यैव गण्यते । न दिवसादि, त्रिंशद्दिवसव्यपगमे अमावास्यान्तरापगमात् अमावास्यया मासज्ञानम् । पौर्णमास्येति । गतम् ॥
2 यो वा इत्यादि ॥ यः पूर्णे आधारे पुनरपि आसिञ्चति प्रक्षिपति जलादि स खलु तं परासिञ्चति सेचनेन नाशयति । यस्तत एवोदचति उत्सिञ्चति उद्धरति स्तोकं सोऽस्मिन् प्राणावकाशं दधाति । तस्मात्पौर्णमास्यनन्तरमहरुत्सर्जनेन संवत्सराय प्राणावकाशं दधाति ततश्च तदनु तेनैव हेतुना सत्रिणः प्राणन्ति । 'अनुर्लक्षणे' इति कर्मप्रवचनीयत्वम् ॥
3 यदहरित्यादि । यदि यथोक्तमहर्नोत्सृजेयुः यथादृतिरुपनद्धः पूरयित्वा बद्धः विपतति विलोडनेन क्वचिदवतिष्ठते एवं संवत्सरो विपतेत् ततश्चार्तिमार्छेयुः यजमानाः । अथाहरुत्सर्जनेन संवत्सरस्योदानं दधाति उच्छ्वासावकाशं कुर्वन्ति तदनुसत्रिण उदनन्ति उच्छ्वसन्ति नार्तिं गच्छन्ति । पूर्णमासे वा इत्यादि । सुतः सुत्या । प्रायेण पूर्णमासे देवानां सुत्येति यावत् । तस्मात्पौर्णमास्युपक्रमं मासं संपाद्य अह्नः पौर्णमास्याः उत्सर्जनाद्देवानामेव यज्ञेन यज्ञं पृष्ठं प्रत्यवरोहन्ति देवानां यज्ञमाकृष्य यज्ञपार्श्वं प्राप्नुवन्ति । ततश्च उत्सृष्टं चानुत्सृष्टं च तदहर्भवति ॥
4 वि वा एतदित्यादि ॥ एतद्धि यज्ञं विच्छिन्दन्ति यत् षडहसन्ततं षडहैरविच्छेदनेन सम्बद्धं सन्ततम् । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । अथानन्तरभावि अहः उत्सृजन्ति यज्ञमहरुत्सर्गेण विच्छिन्दन्ति । अथ यच्चाहरुत्सृजन्ति । प्राजापत्यमित्यादि । उत्सृष्टेऽह्नि संतन्वन्ति अविछिन्नं कुर्वन्ति ॥
5 यन्ति वा इत्यादि ॥ सान्नाय्यं भक्षयन्ति समुपहूयासावसावुपह्वयस्वेति । एतर्हि एतस्मिन्नह्नि एतदेव सोमपानमेषामिति । पिबतेरौणादिकस्स्थक्प्रत्ययः । 'इदमोर्हिल्' इति हिल्प्रत्ययः, 'एते तौरथोः' इति एतादेशः । यथायतनमित्यादि । इह कृत्याभावादेतत् स्थानं हित्वा स्वंस्वं स्थानं गच्छन्ति । गतमन्यत् ॥
6 अनुसवनमित्यादि ॥ सवनेसवने सर्वस्मिन् सवने कालक्रमेण पुरोडाशान् तत्तत्सवनोक्तान् निर्वपन्ति । वीप्सायां 'यथार्थे यदव्ययम्' इत्यनोरव्ययीभावः । यथायतनादेवेति । स्वात्स्वादायतनाद्देवता अवरुन्धते । 'यथाऽसादृश्ये' इत्यव्ययीभावः । अष्टाकपालानित्यादि । प्रातस्सवने प्रातस्सवनकाले । एवं सर्वत्र । छन्दांस्येवेत्यादि । अष्टत्वादिकया गायत्र्यादीनां संख्यया गायत्र्यादीनि छन्दांस्याप्त्वा सवनं यज्ञमवरुन्धते ॥
7 वैश्वदेवमित्यादि ॥ तृतीयसवनकाले निर्वपणात् तृतीयसवनानपगमः ॥
इति सप्तमे पञ्चमे षष्ठोनुवाकः ॥