अ॒सावा॑दि॒त्यो᳚ऽस्मिन् ॅलो॒क आ॑सी॒त् तं दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑ सुव॒र्गं ॅलो॒कम॑गमय॒न् परै॑र॒वस्ता॒त् पर्य॑गृह्णन् दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न् परैः᳚ प॒रस्ता॒त् पर्य॑गृह्णन् पृ॒ष्ठैरु॒पावा॑रोह॒न्थ्स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मि॑न् ॅलो॒के परै॑रुभ॒यतः॒ परि॑गृहीतो॒ यत् पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कं ॅयज॑माना यन्ति॒ परै॑र॒वस्ता॒त् परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न - [ ]
पदपाठः (Word-by-word)
अ॒सौ । आ॒दि॒त्यः । अ॒स्मिन्न् । लो॒के । आ॒सी॒त् । तम् । दे॒वाः । पृ॒ष्ठैः । प॒रि॒गृह्येति॑ परि - गृह्य॑ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒ग॒म॒य॒न्न् । परैः᳚ । अ॒वस्ता᳚त् । परीति॑ । अ॒गृ॒ह्ण॒न्न् । दि॒वा॒की॒र्त्ये॑नेति॑ दिवा - की॒र्त्ये॑न । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्रतीति॑ । अ॒स्था॒प॒य॒न्न् । परैः᳚ । प॒रस्ता᳚त् । परीति॑ । अ॒गृ॒ह्ण॒न्न् । पृ॒ष्ठैः । उ॒पावा॑रोह॒न्नित्यु॑प - अवा॑रोहन्न् । सः । वै । अ॒सौ । आ॒दि॒त्यः । अ॒मुष्मिन्न्॑ । लो॒के । परैः᳚ । उ॒भ॒यतः॑ । परि॑गृहीत॒ इति॒ परि॑-गृ॒ही॒तः॒ । यत् । पृ॒ष्ठानि॑ । भव॑न्ति । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । तैः । लो॒कम् । यज॑मानाः । य॒न्ति॒ । परैः᳚ । अ॒वस्ता᳚त् । परीति॑ । गृ॒ह्ण॒न्ति॒ । दि॒वा॒की॒र्त्ये॑नेति॑ दिवा - की॒र्त्ये॑न ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथैकविंशतिरात्रः प्रस्तयूते - असावित्यादि ॥ असौ इदानीमुपरि वर्तमानः असौ आदित्यः पूर्वस्मिन् मनुष्यलोके आसीत् । अथ देवाः तं पृष्ठैः पृष्ठस्थानीयैष्षड्भिरहोभिः परिगृह्य अस्माल्लोकात् स्वर्गं लोकमगमयन् दिवाकीर्त्येन प्रत्यस्थापयन् प्रतिष्ठापितवन्तः । दिवाकीर्त्यं नाम सामविशेषः । तत्सामकमहरपि दिवाकीर्त्यम् । यत्रोदित आदित्ये प्रातरनुवाकमुपाकरोति । अथ पुनरपि परैः परस्सामभिः त्रिभिरहोभिः तं परस्तादुपरि पर्यगृह्णन् । अथ पृष्ठेरुपरि तेष्षड्भिरहोभिः आवृतैरुपावारोहन् स्वर्गलोकात्पृथिवीमुपावारोहन् तस्मात्सोऽयमसावादित्यो अमुष्मिन् लोके परैः परस्सामभिरुभयतः परस्तादवस्ताच्च परिगृहीतः ॥
2 यत्पृष्ठानीत्यादि ॥ गतम् । यत्पर इत्यादि । यदि परस्सामानः परस्तादुपरिष्टान्न स्युः । सज्ञायां व्यत्ययेन सर्वनामत्वम् । पराञ्चः परागताः स्वर्गान्निष्पद्येरन् निर्गच्छेरन् स्वर्गमतीत्योपरि गच्छेयुः । अथ यद्यवस्तादधस्तात् परस्सामानो न स्युः प्रजाः पृथिवीस्थानं निर्दहेयुः आदित्यनामानो यजमानाः तस्मादभितो दिवाकीर्त्यं विषुवन्तं उभयतः परस्सामानः स्वर्गस्थितान् यजमानान् उभयतः परिगृह्णन्ति ऊर्ध्वाधः पातभीतान् धारयन्ति । 'अभितः परितः' हति द्वितीया ॥
3 यजमाना इत्यादि ॥ गतम् । पृष्ठं वा इत्यादि । पृष्ठं पार्श्वस्थानीयत्वात् तस्मात्पृष्ठमभितः पार्श्वे कॢप्ते प्रजानाम् । भूयिष्ठा इत्यादि । बहुतमा अतिग्राह्यमध्यमेषु सप्तस्वहस्सु गह्यन्ते । भूयांसोस्य यज्ञस्य मध्ये ग्रन्थिं ग्रथ्नन्ति कुर्वन्ति यज्ञस्याविस्रंसाय अनधःपतनाय ॥
4 सप्त गृह्यन्त इति ॥ त्रिषु परस्सामसु त्रीनतिग्राह्यान् गृह्णाति 'उपयामगृहीतोस्यद्भ्यस्त्वौषधीम्यः' इत्यादिभिः त्रिभिः एतानेवावृत्तानर्वाक् सामसु तानूर्ध्वानावृत्तांश्च विषुवाति । तेषां मध्ये सूर्यमुदुत्यं जातवेदसमिति । शीर्षण्याः शिरसि भवाः । 'शरीरावयवाच्च' इति यत्, 'ये च तद्धिते' इति शीर्षन्भावः ॥
5 यत्पराचीनानीत्यादि ॥ पराचीनानि ऊर्ध्वान्येव यद्युभयतोपि पृष्ठानि भवन्ति अमुमेव लोकं अभ्यारोहन्ति तैः तथाविधैः । ततश्च यदिमं लोकं न प्रत्यवरोहेयुः उन्माद्येयुर्वा प्रमीयेरन्वा यजमानाः तस्माद्यत्प्रतीचीनानि आवृत्तानि पृष्ठानि भवन्ति तेनेमं लोकं यजमानाः प्रत्यवरोहन्ति । अपि च अमुष्मात् प्रत्यवरुह्य अस्मिन् लोके प्रतितिष्ठन्ति । तच्चानुन्मादाय भवति । 'विभाषाञ्चेः' इति खः । 'गतिर्गतौ' इति पूर्वस्य गतेर्निघातः, 'तिङि चोदात्तवति' इति परस्य तिङ उदात्तत्वम् ॥
6 इन्द्रो वा इत्यादि । गतम् ॥
7 ये बहुयाजिन इत्यादि ॥ ये बहुभिः यज्ञैः इष्टवन्तोपि अप्रतिष्ठिता एव स्युः । त इत्यादि । मासर्तुलोकादयः आत्मनो योगस्थानानि एतावन्तो देवलोकाः तेषु सर्वेषु यथा पूर्वमनुक्रमेण प्रतिष्ठां गच्छन्ति ॥
8 असौ इत्यादि ॥ गतम् ॥
9 रुगित्यादि ॥ रोचनशीलत्वात् तस्माद्रुचं दीप्तिं प्राप्नुवन्ति । अपि च एकविंशस्य प्रतिष्ठात्वात् प्रतिष्ठामपि गच्छन्त्येव । अतिरात्रावित्यादि । गतम् । ब्रह्मवर्चसपरिग्रहो विशेषः । यथा त्रिरात्रः पृष्ठ्यष्षडहः परस्सामानस्त्रयः विषूवान् आवृत्ताः परस्सामानः प्रतीचीनाः पृष्ठ्यष्षडहोतिरात्रः इति ॥
सप्तमे तृतीये दशमोनुवाकः ॥