सुव॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः᳚ प॒रस्ता॒त् परि॑ गृह्णन्ति पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत् परे॑ प॒रस्ता॒न्न स्युः परा᳚ञ्चः सुव॒र्गा-ल्लो॒कान्निष्प॑द्येर॒न्॒. यद॒वस्ता॒न्न स्युः प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति सुव॒र्ग ए॒वैनां᳚ ॅलो॒क उ॑भ॒यतः॒ परि॑ गृह्णन्ति॒ यज॑माना॒ वै दि॑वाकी॒र्त्यꣳ॑ संॅवथ्स॒रः पर॑स्सामानो॒ऽभितो॑ दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति संॅवथ्स॒र ए॒वोभ॒यतः॒ - [ ]
पदपाठः (Word-by-word)
सु॒व॒र्ग इति॑ सुवः-गे । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । परैः᳚ । प॒रस्ता᳚त् । परीति॑ । गृ॒ह्ण॒न्ति॒ । पृ॒ष्ठैः । उ॒पाव॑रोह॒न्तीत्यु॑प - अव॑रोहन्ति । यत् । परे᳚ । प॒रस्ता᳚त् । न । स्युः । परा᳚ञ्चः । सु॒व॒र्गादिति॑ सुवः - गात् । लो॒कात् । निरिति॑ । प॒द्ये॒र॒न्न् । यत् । अ॒वस्ता᳚त् । न । स्युः । प्र॒जा इति॑ प्र - जाः । निरिति॑ । द॒हे॒युः॒ । अ॒भितः॑ । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । भ॒व॒न्ति॒ । सु॒व॒र्ग इति॑ सुवः - गे । ए॒व । ए॒ना॒न्न् । लो॒के । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्ण॒न्ति॒ । यज॑मानाः । वै । दि॒वा॒की᳚र्त्यमिति॑ दिवा - की॒र्त्य᳚म् । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । अ॒भितः॑ । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । भ॒व॒न्ति॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । उ॒भ॒यतः॑ ।