प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.3.10.4 TS 7.3.10.4
प्र॑त्यव॒-रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑मानाः॒ प्र वा॑ मीयेर॒न्॒. यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कं प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा अप्र॑तिष्ठित आसी॒थ् स प्र॒जाप॑ति॒-मुपा॑धाव॒त् तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्ये ब॑हुया॒जिनो ऽप्र॑तिष्ठिताः॒ - [ ]
पदपाठः (Word-by-word)
प्र॒त्य॒व॒रोहे॑यु॒रिति॑ प्रति - अ॒व॒रोहे॑युः । उदिति॑ । वा॒ । माद्ये॑युः । यज॑मानाः । प्रेति॑ । वा॒ । मी॒ये॒र॒न्न् । यत् । प्र॒ती॒चीना॑नि । पृ॒ष्ठानि॑ । भव॑न्ति । इ॒मम् । ए॒व । तैः । लो॒कम् । प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति । अथो॒ इति॑ । अ॒स्मिन्न् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अनु॑न्मादा॒येत्यनु॑त् - मा॒दा॒य॒ । इन्द्रः॑ । वै । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । आ॒सी॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । प्रतीति॑ । अ॒ति॒ष्ठ॒त् । ये । ब॒हु॒या॒जिन॒ इति॑ बहु - या॒जिनः॑ । अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ ।
पदसंख्या: 50