स्युस्त ए॑कविꣳशति-रा॒त्रमा॑सीर॒न् द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविꣳ॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑था पू॒र्वं प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सो॑ ऽरोचत॒ य ए॒वं वि॒द्वाꣳस॑ एकविꣳशतिरा॒त्रमास॑ते॒ ( ) रोच॑न्त ए॒वैक॑विꣳशतिरा॒त्रो भ॑वति॒ रुग्वा ए॑कविꣳ॒॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविꣳ॒॒शो॑ ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
स्युः । ते । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । आ॒सी॒र॒न्न् । द्वाद॑श । मासाः᳚ । पञ्च॑ । ऋ॒तवः॑ । त्रयः॑ । इ॒मे । लो॒काः । अ॒सौ । आ॒दि॒त्यः । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । ए॒ताव॑न्तः । वै । दे॒व॒लो॒का इति॑ देव - लो॒काः । तेषु॑ । ए॒व । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अ॒सौ । आ॒दि॒त्यः । न । वीति॑ । अ॒रो॒च॒त॒ । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । अ॒रो॒च॒त॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । आस॑ते ( ) । रोच॑न्ते । ए॒व । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्र इत्येक॑विꣳशति - रा॒त्रः । भ॒व॒ति॒ । रुक् । वै । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । रुच᳚म् । ए॒व । ग॒च्छ॒न्ति॒ । अथो॒ इति॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ए॒व । प्र॒ति॒ष्ठेति॑ प्रति - स्था । हि । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥