प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.3.19.1 TS 7.3.19.1
ओष॑धीभ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहा॒ तूले᳚भ्यः॒ स्वाहा॒ काण्डे᳚भ्यः॒ स्वाहा॒ वल्.शे᳚भ्यः॒ स्वाहा॒ पुष्पे᳚भ्यः॒ स्वाहा॒ फले᳚भ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहा ऽगृ॑हीतेभ्यः॒ स्वाहा ऽव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । स्वाहा᳚ । मूले᳚भ्यः । स्वाहा᳚ । तूले᳚भ्यः । स्वाहा᳚ । काण्डे᳚भ्यः । स्वाहा᳚ । वल्.शे᳚भ्यः । स्वाहा᳚ । पुष्पे᳚भ्यः । स्वाहा᳚ । फले᳚भ्यः । स्वाहा᳚ । गृ॒ही॒तेभ्यः॑ । स्वाहा᳚ । अगृ॑हीतेभ्यः । स्वाहा᳚ । अव॑पन्नेभ्य॒ इत्यव॑ - प॒न्ने॒भ्यः॒ । स्वाहा᳚ । शया॑नेभ्यः । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 24
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ ओषधिहोमाः - ओषधीभ्य इत्याद्याः ॥ ओषधीभ्यः फलपाकावसानाभ्यः । 'ओषधेश्च विभक्तावप्रथमायाम्' इति दीर्घत्वम् । मूलानि प्रसिद्धानि । तूलेभ्यः अग्रेम्यः । वल्शेभ्यः प्ररोहेभ्यः । गृहीतेभ्यः प्राणिभिरुपयुक्तेभ्यः पुष्पफलेभ्यः । अगृहीतेभ्यः स्वयंनिपतितेभ्यः । अवपन्नेभ्यः विपन्नेभ्यः । शयानेभ्यः स्तम्बशुष्केभ्यः ॥
इति सप्तमे तृतीये एकोनविंशोनुवाकः ॥