ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ किं द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजां॒ ॅयज॑मानो वृङ्क्त॒ इति॒ तेज॑ इन्द्रि॒यमिति॒ किं द्वि॒तीये॒नेति॑ प्रा॒णान॒न्नाद्य॒मिति॒ किं तृ॒तीये॒नेति॒ त्रीनि॒मान् ॅलो॒कानिति॒ किं च॑तु॒र्त्थेनेति॒ चतु॑ष्पदः प॒शूनिति॒ किं प॑ञ्च॒मेनेति॒ पञ्चा᳚क्षरां प॒ङ्क्तिमिति॒ किꣳ ष॒ष्ठेनेति॒ षड् ऋ॒तूनिति॒ किꣳ स॑प्त॒मेनेति॑ स॒प्तप॑दाꣳ॒॒ शक्व॑री॒मिति॒ - [ ]
पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । किम् । द्वा॒द॒शा॒हस्येति॑ द्वादश - अ॒हस्य॑ । प्र॒थ॒मेन॑ । अह्ना᳚ । ऋ॒त्विजा᳚म् । यज॑मानः । वृ॒ङ्क्ते॒ । इति॑ । तेजः॑ । इ॒न्द्रि॒यम् । इति॑ । किम् । द्वि॒तीये॑न । इति॑ । प्रा॒णानिति॑ प्र - अ॒नान् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । इति॑ । किम् । तृ॒तीये॑न । इति॑ । त्रीन् । इ॒मान् । लो॒कान् । इति॑ । किम् । च॒तु॒र्त्थेन॑ । इति॑ । चतु॑ष्पद॒ इति॒ चतुः॑-प॒दः॒ । प॒शून् । इति॑ । किम् । प॒ञ्च॒मेन॑ । इति॑ । पञ्चा᳚क्षरा॒मिति॒ पञ्च॑ - अ॒क्ष॒रा॒म् । प॒ङ्क्तिम् । इति॑ । किम् । ष॒ष्ठेन॑ । इति॑ । षट् । ऋ॒तून् । इति॑ । किम् । स॒प्त॒मेन॑ । इति॑ । स॒प्तप॑दा॒मिति॑ स॒प्त - प॒दा॒म् । शक्व॑रीम् । इति॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
14 'द्वादशाहेन न याज्यम्' इति यदुक्तं तत्र हेत्वन्तरं चाह - ब्रह्मवादिन इत्यादि ॥ ऋत्विक्प्रतिषेधात् अहीन एव निषेधः । द्वादशाहसंबन्धिना प्रथमेनाह्ना ऋत्विक्संबन्धि किं यजमानो वृङ्क्ते आदत्ते इति ब्रह्मवादिनः पृच्छन्ति तेज इन्द्रियं च वृङ्क्ते इत्युत्तरं ब्रूयात् । एवं द्वितीयादिष्वपि द्रष्टव्यं प्रश्नः प्रतिवचनं च । अन्नस्यादनं अन्नाद्यं । छान्दसः क्यप् । चतुष्पदः 'संख्यासुपूर्वस्य' इति पादस्य लोपः समासान्तः, 'पादः पत्' इति पत् । पञ्चाक्षरां पञ्चाक्षरपदाम् । एरतावद्वा इत्यादि । यावदिदं तदनुक्रान्तं इव यदेव हि तेषामस्ति यद्यावच्च तेषामस्ति तत्सर्वं वृङ्क्ते द्वादशाहेन । तस्मात् द्वादशाहेन न याज्यमिति ॥
इति सप्तमे तृतीये द्वितीयोनुवाकः ॥