प्र॒जाप॑तिः सुव॒र्गं ॅलो॒कमै॒त् तं दे॒वा अन्वा॑य॒न् ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न् ते दे॒वा अ॑ब्रुव॒न॒. यान् प॒शूनु॒पाजी॑विष्म॒ त इ॒मे᳚ ऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रं प्रत्यौ॑ह॒न् त आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं ॅलो॒कमाऽरो॑हन् त्र्य॒हाभ्या॑म॒स्मिन् ॅलो॒के प॒शून् प्रत्यौ॑हन् पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मि॑न् ॅलो॒क आर्द्ध्नु॑वन् त्र्य॒हाभ्या॑म॒स्मिन् - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ऐ॒त् । तम् । दे॒वाः । अन्विति॑ । आ॒य॒न्न् । तान् । आ॒दि॒त्याः । च॒ । प॒शवः॑ । च॒ । अन्विति॑ । आ॒य॒न्न् । ते । दे॒वाः । अ॒ब्रु॒व॒न्. । यान् । प॒शून् । उ॒पाजी॑वि॒ष्मेत्यु॑प - अजी॑विष्म । ते । इ॒मे । अ॒न्वाग्म॒न्नित्य॑नु-आग्मन्न्॑ । इति॑ । तेभ्यः॑ । ए॒तम् । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश-रा॒त्रम् । प्रतीति॑ । औ॒ह॒न्न् । ते । आ॒दि॒त्याः । पृ॒ष्ठैः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । एति॑ । अ॒रो॒ह॒न्न् । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् । लो॒के । प॒शून् । प्रतीति॑ । औ॒ह॒न्न् । पृ॒ष्ठैः । आ॒दि॒त्याः । अ॒मुष्मिन्न्॑ । लो॒के । आद्र्ध्नु॑वन्न् । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ द्वितीयश्चतुर्दशरात्रो विधीयते - प्रजातिरित्यादि ॥ अत्रेयमहःकॢप्तिः - अतिरात्रो ज्योतिर्गौरायुः । पृष्ठ्यष्षडहः, आयुर्गौर्ज्योतिरतिरात्र इति । प्रजापतिः स्वर्गमगच्छत् । तं देवा आदित्याः पशवश्चान्वगच्छन् । ते देवा अब्रुवन् यान् पशूनुपाजीविष्म तेऽप्यमी अस्मानन्वाग्मन् अन्वागच्छन्ति । छान्दसे लुङि 'मन्त्रे घस' इति च्लेर्लुक् । 'गतिर्गतौ' इति निघाताभावः, समासश्च । तत्रादित्याः स्वर्गं गच्छन्तु इमे तु पशवः सर्वभूतोपजीव्या अस्मिन्नेव लोके ऋद्धिमन्तः कार्याः । अत्र पृष्ठवानेव चतुर्दशरात्र आदित्यानां स्वर्गगमनहेतुः, पश्वर्थे तु यतितव्यमिति कृताध्यवसाया देवाः तेभ्यः पशुभ्यः चतुर्दशरात्रं प्रत्यौहन् प्रत्यावृत्य गतिमकुर्वन्, प्रथमत्रिरात्रं कृत्वा ततः पृष्ठानन्तरं भूयोपि तत्रैव त्रिरात्रे प्रत्यवरोहणं प्रत्यूहः । ततश्चतुर्दशरात्रमकुर्वन् पशूनां प्रत्यवरोहणाय । अवयवधर्मेण समुदायव्यपदेशः यथा अवयवव्यूढतया द्वादशाहो व्यूढः । तत्रादित्याः देवसकाशं समासादितचतुर्दशरात्राः ष्टष्ठैरेव पृष्ठवत्तयैव स्वर्गमारोहन् । पशूंस्तु अस्मिन्नेव लोके त्र्यहाभ्यां प्रत्यावृत्य अस्मान्देवाः प्रत्यौहन् प्रत्यावर्तयन् । पृष्ठैरेवादित्या अमुष्मिन् आर्ध्नुवन् । त्र्यहाभ्यां यथोक्तलक्षणाभ्यां अस्मिन्पशव अर्ध्नुवन्नित्येव ॥
2 य एवमित्यादि ॥ गतम् ॥
3 कः पुनरसौ त्र्यह इत्याह - ज्योतिरित्यादि ॥
4 कः पुनरस्य विशेष इत्याह - इयं वावेत्यादि ॥ इमानिति इममन्तरिक्षं अमुं च प्रत्यूहेन पुनरिमां प्राप्य ऋद्धा भवन्ति । यदन्यत इत्यादि । यदन्यतः एकतः पृष्ठानि स्युः सामर्थ्यादेकतस्त्र्यहाविति गम्यते । तद्विविवधं स्यात् । उभयतोवलम्बक्षीरादिवहनयन्त्रविशेषो विवधः; तद्विरुद्धं स्यात् विषमं स्यात् एकतोल्पं भारं एकतो महाभारमिति । तस्मान्मध्ये पृष्ठानि भवन्ति सामर्थ्यादभितस्त्र्यहाविति गम्यते । सविवधत्वाय विवधसदृशत्वाय समभारत्वायेति यावत् । सहशब्दस्य सादृश्येऽव्य यीभावः । 'अव्ययीभावे चाकाले' इति सभावः । ओघो वा इत्यादि । गतम् ॥
5 बृहद्रथन्तराभ्यामित्यादि ॥ दिवसेषु एकान्तराभ्यां यन्ति । गतमन्यत् । पराञ्च इत्यादि । अपुनरावृत्ता एव स्वर्गं गच्छन्ति, पराचीनपृष्ठोपयानात् । 'विभाषाञ्चेरदिक्स्त्रियाम्, इति खः । तस्मात्प्रत्यङ् प्रतीचीनगतिः द्वितीयस्त्र्यहो भवति, आयुर्गौर्ज्योतिरिति । प्रत्यवरूढ्यै प्रत्यवरोहणाय आत्मनो भवति । पृथिव्यामवरोहणाय प्रतिष्ठार्थं च भवति । उभयत्र 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । एवमुभयोर्लोकयोः ऋद्धिं प्राप्य उत्तिष्ठन्ति ॥
6 चतुर्दशैता इत्यादि ॥ एताश्चतुर्दशरात्र्यः तासां मध्ये या दश ताभिः दशत्वान्वयात् विराडात्मकान्नलाभः । यारततः पराश्चतस्रः ताभिश्चतुष्ट्वान्वयात् दिक्षु प्रतिष्ठिता भवन्ति । अतिरात्रावभितो भवतः उभयलोकवेदिभिः परिग्रहाय ॥
इति सप्तमे तृतीये पञ्चमोनुवाकः ॥