प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.3.5.1 TS 7.3.5.1
प्र॒जाप॑तिः सुव॒र्गं ॅलो॒कमै॒त् तं दे॒वा अन्वा॑य॒न् ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न् ते दे॒वा अ॑ब्रुव॒न॒. यान् प॒शूनु॒पाजी॑विष्म॒ त इ॒मे᳚ ऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रं प्रत्यौ॑ह॒न् त आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं ॅलो॒कमाऽरो॑हन् त्र्य॒हाभ्या॑म॒स्मिन् ॅलो॒के प॒शून् प्रत्यौ॑हन् पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मि॑न् ॅलो॒क आर्द्ध्नु॑वन् त्र्य॒हाभ्या॑म॒स्मिन् - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ऐ॒त् । तम् । दे॒वाः । अन्विति॑ । आ॒य॒न्न् । तान् । आ॒दि॒त्याः । च॒ । प॒शवः॑ । च॒ । अन्विति॑ । आ॒य॒न्न् । ते । दे॒वाः । अ॒ब्रु॒व॒न्. । यान् । प॒शून् । उ॒पाजी॑वि॒ष्मेत्यु॑प - अजी॑विष्म । ते । इ॒मे । अ॒न्वाग्म॒न्नित्य॑नु-आग्मन्न्॑ । इति॑ । तेभ्यः॑ । ए॒तम् । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश-रा॒त्रम् । प्रतीति॑ । औ॒ह॒न्न् । ते । आ॒दि॒त्याः । पृ॒ष्ठैः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । एति॑ । अ॒रो॒ह॒न्न् । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् । लो॒के । प॒शून् । प्रतीति॑ । औ॒ह॒न्न् । पृ॒ष्ठैः । आ॒दि॒त्याः । अ॒मुष्मिन्न्॑ । लो॒के । आद्‌र्ध्नु॑वन्न् । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ द्वितीयश्चतुर्दशरात्रो विधीयते - प्रजातिरित्यादि ॥ अत्रेयमहःकॢप्तिः - अतिरात्रो ज्योतिर्गौरायुः । पृष्ठ्यष्षडहः, आयुर्गौर्ज्योतिरतिरात्र इति । प्रजापतिः स्वर्गमगच्छत् । तं देवा आदित्याः पशवश्चान्वगच्छन् । ते देवा अब्रुवन् यान् पशूनुपाजीविष्म तेऽप्यमी अस्मानन्वाग्मन् अन्वागच्छन्ति । छान्दसे लुङि 'मन्त्रे घस' इति च्लेर्लुक् । 'गतिर्गतौ' इति निघाताभावः, समासश्च । तत्रादित्याः स्वर्गं गच्छन्तु इमे तु पशवः सर्वभूतोपजीव्या अस्मिन्नेव लोके ऋद्धिमन्तः कार्याः । अत्र पृष्ठवानेव चतुर्दशरात्र आदित्यानां स्वर्गगमनहेतुः, पश्वर्थे तु यतितव्यमिति कृताध्यवसाया देवाः तेभ्यः पशुभ्यः चतुर्दशरात्रं प्रत्यौहन् प्रत्यावृत्य गतिमकुर्वन्, प्रथमत्रिरात्रं कृत्वा ततः पृष्ठानन्तरं भूयोपि तत्रैव त्रिरात्रे प्रत्यवरोहणं प्रत्यूहः । ततश्चतुर्दशरात्रमकुर्वन् पशूनां प्रत्यवरोहणाय । अवयवधर्मेण समुदायव्यपदेशः यथा अवयवव्यूढतया द्वादशाहो व्यूढः । तत्रादित्याः देवसकाशं समासादितचतुर्दशरात्राः ष्टष्ठैरेव पृष्ठवत्तयैव स्वर्गमारोहन् । पशूंस्तु अस्मिन्नेव लोके त्र्यहाभ्यां प्रत्यावृत्य अस्मान्देवाः प्रत्यौहन् प्रत्यावर्तयन् । पृष्ठैरेवादित्या अमुष्मिन् आर्ध्नुवन् । त्र्यहाभ्यां यथोक्तलक्षणाभ्यां अस्मिन्पशव अर्ध्नुवन्नित्येव ॥
2 य एवमित्यादि ॥ गतम् ॥
3 कः पुनरसौ त्र्यह इत्याह - ज्योतिरित्यादि ॥
4 कः पुनरस्य विशेष इत्याह - इयं वावेत्यादि ॥ इमानिति इममन्तरिक्षं अमुं च प्रत्यूहेन पुनरिमां प्राप्य ऋद्धा भवन्ति । यदन्यत इत्यादि । यदन्यतः एकतः पृष्ठानि स्युः सामर्थ्यादेकतस्त्र्यहाविति गम्यते । तद्विविवधं स्यात् । उभयतोवलम्बक्षीरादिवहनयन्त्रविशेषो विवधः; तद्विरुद्धं स्यात् विषमं स्यात् एकतोल्पं भारं एकतो महाभारमिति । तस्मान्मध्ये पृष्ठानि भवन्ति सामर्थ्यादभितस्त्र्यहाविति गम्यते । सविवधत्वाय विवधसदृशत्वाय समभारत्वायेति यावत् । सहशब्दस्य सादृश्येऽव्य यीभावः । 'अव्ययीभावे चाकाले' इति सभावः । ओघो वा इत्यादि । गतम् ॥
5 बृहद्रथन्तराभ्यामित्यादि ॥ दिवसेषु एकान्तराभ्यां यन्ति । गतमन्यत् । पराञ्च इत्यादि । अपुनरावृत्ता एव स्वर्गं गच्छन्ति, पराचीनपृष्ठोपयानात् । 'विभाषाञ्चेरदिक्स्त्रियाम्, इति खः । तस्मात्प्रत्यङ् प्रतीचीनगतिः द्वितीयस्त्र्यहो भवति, आयुर्गौर्ज्योतिरिति । प्रत्यवरूढ्यै प्रत्यवरोहणाय आत्मनो भवति । पृथिव्यामवरोहणाय प्रतिष्ठार्थं च भवति । उभयत्र 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । एवमुभयोर्लोकयोः ऋद्धिं प्राप्य उत्तिष्ठन्ति ॥
6 चतुर्दशैता इत्यादि ॥ एताश्चतुर्दशरात्र्यः तासां मध्ये या दश ताभिः दशत्वान्वयात् विराडात्मकान्नलाभः । यारततः पराश्चतस्रः ताभिश्चतुष्ट्वान्वयात् दिक्षु प्रतिष्ठिता भवन्ति । अतिरात्रावभितो भवतः उभयलोकवेदिभिः परिग्रहाय ॥
इति सप्तमे तृतीये पञ्चमोनुवाकः ॥