नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒ मा मामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्माऽहमृषी᳚न् मन्त्र॒कृतो॑ मन्त्र॒पती॒न् परा॑दां ॅवैश्वदे॒वीं ॅवाच॑मुद्यासꣳ शि॒वामद॑स्ता॒म् जुष्टा᳚म् दे॒वेभ्यः॒ शर्म॑ मे॒ द्यौः शर्म॑ पृथि॒वी शर्म॒ विश्व॑मि॒दम् जग॑त् । शर्म॑ च॒न्द्रश्च॒ सूर्य॑श्च॒ शर्म॑ ब्रह्मप्रजाप॒ती ॥ भू॒तं ॅव॑दिष्ये॒ भुव॑नं ॅवदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒ ब्रह्म॑ वदिष्ये स॒त्यं ॅव॑दिष्ये॒ तस्मा॑ अ॒हमि॒द-मु॑प॒स्तर॑ण॒-मुप॑स्तृण उप॒स्तर॑णम् मे प्र॒जायै॑ पशू॒नाम् भू॑या-दुप॒स्तर॑णम॒हम् प्र॒जायै॑ पशू॒नाम् भू॑यास॒म् प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒म् प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒म् मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीम् दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्या᳚म् मनु॒ष्ये᳚भ्य॒स्तम् मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥ ओम् शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
TA 7.1
1 पञ्चाशत्
॥