TA 7.4

1 पञ्चाशत्

T.A.7.4.1
ब्रह्म॑न् प्रव॒र्ग्ये॑ण॒ प्रच॑रिष्यामः । होत॑र् घ॒र्मम॒भिष्टु॑हि । अग्नी॒द्रौहि॑णौ पुरो॒डाशा॒वधि॑श्रय । प्रति॑प्रस्थात॒र्विह॑र । प्रस्तो॑तः॒ सामा॑नि गाय ॥ यजु॑र्युक्तꣳ॒॒ साम॑भि॒राक्त॑खन्त्वा । विश्वै᳚र् दे॒वैरनु॑मतम् म॒रुद्भिः॑ । दक्षि॑णाभिः॒ प्रत॑तम् पारयि॒ष्णुम् । स्तुभो॑ वहन्तु सुमन॒स्यमा॑नम् । स नो॒ रुच॑न्धे॒ह्यहृ॑णीयमानः ( ) । भूर्भुव॒स्सुवः॑ । ओमिन्द्र॑वन्तः॒ प्रच॑रत ।
कोर्वै (Index)
(अहृ॑णीयमानो॒ द्वे च॑)