दश॒ प्राची॒र्दश॑ भासि दक्षि॒णा । दश॑ प्र॒तीची॒र्दश॑ भा॒स्युदी॑चीः । दशो॒र्द्ध्वा भा॑सि सुमन॒स्यमा॑नः । स नो॒ रुच॑न्धे॒ह्यहृ॑णीयमानः ॥ अ॒ग्निष्ट्वा॒ वसु॑भिः पु॒रस्ता᳚द्-रोचयतु गाय॒त्रेण॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय ॥ इन्द्र॑स्त्वा रु॒द्रैर्-द॑क्षिण॒तो रो॑चयतु॒ त्रैष्टु॑भेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय । वरु॑णस्त्वाऽऽदि॒त्यैः प॒श्चाद्-रो॑चयतु॒ जाग॑तेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय
कोर्वै (Index)
(रो॒च॒य॒ - धे॒हि॒ - +नव॑ च)