भूर्भुव॒स्सुवः॑ । मयि॒ त्यदि॑न्द्रि॒यम् म॒हत् । मयि॒ दक्षो॒ मयि॒ क्रतुः॑ । मयि॑ धायि सु॒वीर्य᳚म् । त्रिशु॑ग्घ॒र्मो विभा॑तु मे । आकू᳚त्या॒ मन॑सा स॒ह । वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । ब्रह्म॑णा॒ तेज॑सा स॒ह । क्ष॒त्रेण॒ यश॑सा स॒ह ( ) । स॒त्येन॒ तप॑सा स॒ह । तस्य॒ दोह॑मशीमहि । तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि । तस्य॑ त॒ इन्द्रे॑ण पी॒तस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि ।
कोर्वै (Index)
(यश॑सा स॒ह षट्च॑)