TA 7.2

6 पञ्चाशत्

T.A.7.2.1
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियः॑ । विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इत् । म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र् बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्या॒माद॑दे ॥ अभ्रि॑रसि॒ नारि॑रसि । अ॒द्ध्व॒र॒कृद्-दे॒वेभ्यः॑ । उत्ति॑ष्ठ ब्रह्मणस्पते
कोर्वै (Index)
(प॒ते॒ - शिर॑ - ऋतावरीर्. ऋद्ध्यास॑म॒द्य म॒खस्य॒ शिरः॒ - शिरः॒ - शिरो॑ऽसि॒ - +नव॑ च)
T.A.7.2.2
दे॒व॒यन्त॑स्त्वेमहे । उप॒ प्रय॑न्तु म॒रुतः॑ सु॒दान॑वः । इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ ॥ प्रैतु॒ ब्रह्म॑ण॒स्पतिः॑ । प्र दे॒व्ये॑तु सू॒नृता᳚ । अच्छा॑ वी॒रन्नर्य॑म् प॒ङ्क्तिरा॑धसम् । दे॒वा य॒ज्ञ्न्न॑यन्तु नः ॥ देवी᳚ द्यावापृथिवी॒ अनु॑ मे मꣳसाथाम् । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ।
कोर्वै (Index)
(प॒ते॒ - शिर॑ - ऋतावरीर्. ऋद्ध्यास॑म॒द्य म॒खस्य॒ शिरः॒ - शिरः॒ - शिरो॑ऽसि॒ - +नव॑ च)
T.A.7.2.3
म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे ॥ इय॒त्यग्र॑ आसीः । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ । म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे ॥ देवी᳚र् वम्रीर॒स्य भू॒तस्य॑ प्रथमजा ऋतावरीः ॥ ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑
कोर्वै (Index)
(प॒ते॒ - शिर॑ - ऋतावरीर्. ऋद्ध्यास॑म॒द्य म॒खस्य॒ शिरः॒ - शिरः॒ - शिरो॑ऽसि॒ - +नव॑ च)
T.A.7.2.4
म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे ॥ इन्द्र॒स्यौजो॑ऽसि । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ । म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे ॥ अ॒ग्नि॒जा अ॑सि प्र॒जाप॑ते॒ रेतः॑ । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑
कोर्वै (Index)
(प॒ते॒ - शिर॑ - ऋतावरीर्. ऋद्ध्यास॑म॒द्य म॒खस्य॒ शिरः॒ - शिरः॒ - शिरो॑ऽसि॒ - +नव॑ च)
T.A.7.2.5
म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्ष्णे ॥ आयु॑र् धेहि प्रा॒णम् धे॑हि । अ॒पा॒नम् धे॑हि व्या॒नम् धे॑हि । चक्षु॑र् धेहि॒ श्रोत्रं॑ धेहि । मनो॑ धेहि॒ वाचं॑ धेहि । आ॒त्मानं॑ धेहि प्रति॒ष्ठां धे॑हि । मां धे॑हि॒ मयि॑ धेहि ॥ मधु॑ त्वा मधु॒ला क॑रोतु । म॒खस्य॒ शिरो॑ऽसि ( )
कोर्वै (Index)
(प॒ते॒ - शिर॑ - ऋतावरीर्. ऋद्ध्यास॑म॒द्य म॒खस्य॒ शिरः॒ - शिरः॒ - शिरो॑ऽसि॒ - +नव॑ च)
T.A.7.2.6
य॒ज्ञ्स्य॑ प॒दे स्थः॑ । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा करोमि । त्रैष्टु॑भेन त्वा॒ छन्द॑सा करोमि । जाग॑तेन त्वा॒ छन्द॑सा करोमि ॥ म॒खस्य॒ रास्ना॑ऽसि । अदि॑तिस्ते॒ बिल॑ङ्गृह्णातु । पाङ्क्ते॑न॒ छन्द॑सा । सूर्य॑स्य॒ हर॑सा श्राय । म॒खो॑ऽसि ।
कोर्वै (Index)
(प॒ते॒ - शिर॑ - ऋतावरीर्. ऋद्ध्यास॑म॒द्य म॒खस्य॒ शिरः॒ - शिरः॒ - शिरो॑ऽसि॒ - +नव॑ च)